________________
आव ०
हारि० टीप्पणं
॥ १९ ॥
त्यागादिकमुक्तमित्येवंप्रकारमादौ कृत्वाऽपरमपि पूर्वभववक्तव्यतादिकं सविस्तरं सर्व जिनानां सम्बन्धि प्रथमानुयोगाद्-उक्त| स्वरूपाद्विज्ञेयमिति । ननु यद्येवं सर्वमपि प्रथमानुयोगादेव ज्ञास्यते त्वया किञ्चिदपि किमित्युक्तमित्याशङ्कयाह - स्थानाशून्यार्थ पुनर्भणितं किञ्चिदिति गम्यत इति न दोषः । इतः किमित्याह - 'पगयं अओ वुच्छं' ति ( १४), प्रकृतं - प्रस्तु तं वस्तु अतोऽनन्तरं वक्ष्येऽभिधास्य इति गाथार्थः । ननु प्रकृतं वक्ष्ये इत्युक्तं, किञ्च तदिह प्रकृतमिति नाद्यापि सम्यनिश्चिनुम इत्याह- 'उसभजिण' गाहा (१४२), व्याख्या - कथमसौ सम्यक्त्वमवाप कदा वा तीर्थकर नामकर्मबन्धः कुतो वाऽऽगत्य इहोत्पन्नः कदा वा दीक्षां जग्राह इत्यादिलक्षणं ऋषभजिनसमुत्थानमत्र प्रकृतं तद्वक्ष्ये इति पूर्वगाथावयवेन संटङ्कः, ननु कथमत्र ऋषभजिनसमुत्थानं प्रकृतमित्याह - 'उडाणं जंतओ मरीइस्स' त्ति (१४२), यद्यस्मात्कारणात् ऋषभ जिनादुत्थानम् - उत्पत्तिर्मरीचेः, इदमुक्तं भवति - मरीचेरिहोत्पत्तिरानेतव्या, नचासौ ऋषभदेवसमुत्थानेऽवर्णितेऽभिहितापि सम्यगविधार्यत इति ऋषभजिनसमुत्थानमिह प्रकृतं, ननु स्यादेवं यदि मरीचेरप्युत्पत्त्या किञ्चिदिह प्रयोजनं स्यात् तच्च नास्ति, असम्बद्धत्त्वात्तस्या इत्याह- 'सामाइयस्स एसो' इत्यादि (१४२), 'यद्' यस्मात्कारणादेष सर्वोऽपि पूर्व षड्विधनिर्गमस्वरूपप्र| तिपादनादारभ्य सामायिकस्य कुतः पुरुषद्रव्यादिदं निर्गतं सोऽपि च पुरुषः कथं मिथ्यात्वादिभ्यो निर्गत इत्येवंरूपो निर्गमोऽधिकृतः, तेन मरीच्युत्पत्तिः प्रयोजनवती, यदि नाम सामायिकस्य निर्गमोऽधिकृतस्तर्हि मरीच्युत्पत्तेः किमायातं ?, सत्यम्, एतदुक्तं भवति - सामायिकाध्ययनं ह्येतत्, ततस्तस्य द्रव्यनिर्गमे विचार्ये कुतो द्रव्यादिदं निर्गतमिति जिज्ञासिते महावीरद्रव्यादिति वक्तव्यं, महावीरोऽपि कथं मिथ्यात्वादिभ्यो निर्गत इति बुभुत्सिते महावीरोत्पत्तिर्वक्तव्या, न चासौ मरीच्यु
Jain Education rational
For Private & Personal Use Only
ऋषभादिजिनवक्तव्यता
॥ १९ ॥
w.jainelibrary.org