SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ आ० ४ Jain Educa | सर्वायुष्कं प्रतिपाद्य क्रमप्राप्तमन्तक्रियाद्वारमाह- 'निवाण' गाहा (१४२), व्याख्या - अन्तक्रिया किमुच्यते इत्याह- निर्वाणं मो क्षगमनमितियावत्, सा चान्तक्रिया चतुर्द्दशभक्तेन षङ्गिरुपवासैरित्यर्थः, प्रथमनाथस्य - ऋषभदेवस्याभूत्, शेषाणां त्वजितादीनां मासोपवासेन, किं सर्वेषामित्याह - वीरजिनेन्द्रस्य षष्ठेन, द्वाभ्यामुपवासाभ्यामिति गाथार्थः । केषु पुनः स्थानेषु तेषामन्तक्रियाऽभूदित्याह - 'अट्ठावय' गाहा (१४२), अष्टापदादिषु स्थानेषु ऋषभादयः सिद्धिं गता इति यथासङ्ख्यं सम्बन्धः, तद्यथाअष्टापदपर्वते ऋषभः सिद्धिमुपाययौ, चम्पायां वासुपूज्यः, उज्जयन्ते नगे नेमिः, अपापानगर्यो महावीरः, शेषास्तु उक्त व्यतिरिक्ता विंशतिः सम्मेतशैलशिखरे सिद्धिं गता इति गाथार्थः । तत्र च कः कियत्परिवारः सिद्ध इत्याह- 'एक्को' गाहा 'पंचहिं' गाहा 'सत्त' गाहा 'दसहिं' गाहा ( १४२ ), एताश्चतस्रोऽपि पाठसिद्धा एव, नवरं 'अट्ठसएणं धम्मो 'ति अष्टोत्तरशतेन साधूनां परिवृतो धर्मः सिद्ध इत्यर्थः, 'पउमाभे तिन्नि अट्ठसय'त्ति पद्मप्रभतीर्थकृद्विषये त्रीण्यष्टोत्तरश| तानि साधूनां निर्वृतानीत्यवगन्तव्यं, त्रिगुणमष्टोत्तरशतमित्यर्थः, त्रीणि शतानि चतुर्विंशत्यधिकानीतियावत्, ननूक्तं तीर्थकृतामन्तक्रियावसरे भक्तपरित्यागस्थानपरिवारस्वरूपम्, एतत्तु नोक्तं कस्तीर्थकरः कस्यां वेलायां सिद्धिवधूसङ्गमुपलेभे, को वा किमवस्थः सिद्ध इत्यादि, तदेतदाशङ्कयाह — अन्तक्रियासम्बन्धकालादिस्वरूपं यन्मयेह नोक्तं तत्प्रथमानुयोगाद्द्वादशाङ्गान्तर्गताच्छास्त्रविशेषाद्विज्ञेयमिति गाथाचतुष्टयगूढपदार्थः ॥ साम्प्रतं सर्वतीर्थकर वक्तव्यताया बहुत्वमालोक्य तद्भणने च प्रकृतग्रन्थगौरवं निश्चित्य ग्रन्थान्तरेऽतिदेशं दित्सुरुपसंहरन्नाह - 'इश्चेवमाई सवं' गाहा ( १४२ ) व्याख्या - 'इतिः' उपप्रदर्शने, एवंशब्दः प्रकारार्थे, ततश्च 'संबोहणपरिच्चाए ' इत्यादिग्रन्थसंदर्भेण यन्मया तीर्थकृतां सम्बोधनपरि donal For Private & Personal Use Only www.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy