SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पण ॥१८॥ BAROSSA CASA केवली विवक्षितो, जिनत्वस्य जिनानां वा कालो जिनकालः, केवलिकाल इत्यर्थः, इदमुक्तं भवति–'वाससहस्सं बार-जिनराज्य. सेत्यादिना यश्छद्मस्थकाल उक्तः स दीक्षाकालाद् 'उसभस्स पुवलक्ख'मित्यादिना अभिहिताच्छोध्यते, ततः शेषः कुमारादि केवलिकालो भवति, तद्यथा-ऋषभदेवस्य वर्षसहस्रलक्षणः छद्मस्थकालो यदा पूर्वलक्षस्वरूपाद् दीक्षाकालादुद्रियते तदा सर्वायुष्कावर्षसहस्रन्यूनं पूर्वलक्ष केवलिकालो भवति, एवमन्यत्रापि भावनीयमिति । तदेवं सर्वतीर्थकृतां समस्तानपि कुमारवासादि दिच पर्यायान् भेदतोऽभिधाय साम्प्रतं सर्वेषां सामान्येन सर्वायुष्कप्रतिपिपादयिषया उपक्रमते-'सवाउय'मित्यादि, सर्वा-3 युष्कमपि ऋषभादीनामत ऊर्ट्स मम कथयतो निशामयत यूयमिति गाथार्थः । यथाप्रतिज्ञातमेवाह-'चउरासीई' गाहा(प० १४२), व्याख्या-इह गाथापर्यन्ते पूर्वाणामित्युक्तं गाथाप्रथमार्द्धपर्यन्ते च लक्षाणीत्युक्तं, ततश्चेत्थं सम्बन्धो द्रष्टव्यःपूर्वाणां लक्षाणि चतुरशीतिः प्रथमतीर्थकरस्य सर्वायुष्कमिति १ द्विसप्ततिः पूर्वलक्षाणि २ षष्टिः पूर्वलक्षाणि ३ पञ्चाशत्पूर्व लक्षाणि ४ चत्वारिंशत्पूर्वलक्षाणि ५ त्रिंशत्पूर्वलक्षाणि ६ विंशतिः पूर्वलक्षाणि ७ दश पूर्वलक्षाणि ८ द्वे पूर्वलक्षे ९ एक * पूर्वलक्षं १० । 'चउरासीई' गाहा (प० १४२), व्याख्या-इहापि गाथापर्यन्ते शतसहस्राणीत्युक्तं, प्रथमार्चपर्यन्ते तु वर्षा णामिति, ततश्चतुरशीतिवर्षाणां शतसहस्राणि लक्षाणीतियावत् एकादशस्य सर्वायुष्कमिति दृश्यं ११ द्विसप्ततिवर्षलक्षाणि ६ १२ षष्टिवर्षलक्षाणि १३ त्रिंशद्वर्षलक्षाणि १४ दश वर्षलक्षाणि १५ एकं वर्षलक्ष १६ 'पंचाणउई' गाहा (प० १४२), पञ्च नवतिः सहस्राणि वर्षाणामितीहापि सम्बध्यते १७ चतुरशीतिवर्षसहस्राणीति गम्यते १८ पञ्चपञ्चाशद्वर्षसहस्राणि १९ त्रिंशद्वर्षसहस्राणि २० दश वर्षसहस्राणि २१ एक वर्षसहस्र २२ शतं वर्षाणां २३ द्विसप्ततिवर्षाणि २४ इति गाथात्रयार्थः । Jain Education a l For Private & Personal Use Only Kow.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy