________________
Jain Education In
न्तीति, अन्यत्र तु पाठद्वये दीक्षापर्यायसङ्ख्याक्षेपे दशपूर्बलक्षाण्यागच्छन्त्येव, केवलमाद्यपाठ एव सङ्गतिमानिति वृद्धवाद:, तत्त्वं तु केवलिनो विदन्तीति । एवमन्यत्रापि यत्र विसंवादबुद्धिरुत्पद्यते तत्र कुमारवासादिपर्यायसङ्ख्यां मीलयित्वा सर्वायुष्केण सह संवादो मृग्य इति त्रयोविंशतिगाथातात्पर्यार्थः ॥ ननु ऋषभादीनां सुविधिपर्यन्तानां नवानां तीर्थकृतां | किमिति कुमारराज्यपर्यायलक्षणं द्वयमेवोक्तं, न तु दीक्षापर्याय इति ?, पूर्वोक्तत्वात्पुनर्भणने पौनरुक्त्यप्रसङ्गादिति चेत्तर्हि | शीतलप्रभृतीनामपि पूर्वमसावुक्त एव किमिति पुनरप्युक्त इत्याशङ्कयाद्यानां नवानां तीर्थकृतां दीक्षापर्यायप्रतिपादनायाह'उसभस्स पुवलक्खं' गाहा ( १४१), प्राक्प्रत्येकं दीक्षाप्रतिपादनावसरे व्याख्यातैवेयमिति । नन्वनया गाथया नवानामभिहितो दीक्षापर्यायः, शेषाणां तु कथमित्याह - 'सेसाणं परिया' गाहा ( १४१ ), व्याख्या - शेषाणां शीतल| प्रभृतीनां दीक्षापर्यायः कुमारवासादिपर्यायेण सहैवोक्त इति नेहोच्यत इति भावः । नन्विदमेव प्रथमं भवद्भिदक्षापर्याय उच्यते उत प्रागप्युक्तोऽसावित्याह - 'पत्तेअंपि य पुत्रं 'ति, प्रत्येकं कुमारवासादिपर्यायैर्वियुतोऽपिशब्दस्य व्यवहितसम्बन्ध - त्वात्पूर्वमपि भणितोऽसाविति शेषः । यद्येवं - स्थानद्वयेऽस्य भणनं किमर्थमित्याह - तथाविधस्मृतिपाटववियुक्तशिष्यज| नानुग्रहार्थमिति गाथार्थः ॥ ननूक्तस्तीर्थकृतां कुमारवासादिपर्यायः केवलिपर्यायस्तु नाद्याप्युक्तः स कथमवसेय इत्याह'छउमत्थकाल' गाहा ( प० १४२ ), व्याख्या - भावप्रधानत्वान्निर्देशस्य छद्मस्थत्वस्य छद्मस्थत्वे वा कालभ्छद्मस्थकालः | छद्मस्थानां वा कालः छद्मस्थकालस्तं, किमित्याह- 'एतो सोहेउ' ति एतस्मात्स्थानद्वयोक्तदीक्षाकालाच्छोधयित्वा शेषकस्तूद्धरितो जिनकालो विज्ञेय इति गम्यते, यद्यपि चेह क्षीणोपशान्तमोहच्छद्मस्थोऽपि जिन उच्यते तथाऽप्यत्र जिनशब्देन
For Private & Personal Use Only
***
ww.jainelibrary.org