SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं जिनदीक्षाकालादि २१ सप्तवर्षशतानि २२ सप्ततिवर्षाणि २३ द्विचत्वारिंशद्वर्षाणि २४ । एष दीक्षाकालो जिनेन्द्राणामृषभादीनां यथाक्रमं • विज्ञेय इति गाथापञ्चकार्थः ॥ एवं दीक्षापर्यायं प्रतिपाद्य साम्प्रतं पर्यायसाम्यादेव कुमारवासादिपर्यायं दर्शयन्नाह- 'उसभस्स कुमारत्त'मित्यादि (प० १४१), गाथास्त्रयोविंशतिरेताः पाठसिद्धा एव, नवरमाद्यासु नवसु गाथासु ऋषभादीनां सुविधिपर्यन्तानां नवानां तीर्थकृतां कुमारत्वपर्यायोराज्यपर्यायश्चेत्येतदेव द्वयं द्वयं उक्तं न दीक्षापर्यायस्तस्यानन्तर मेवोक्तत्वात् पुनरपि च 'उसभस्स पुचलक्ख'मित्यादिना वक्षमाणत्वाच्चेति । वासुपूज्यमल्यरिष्ठनेमिपार्श्ववद्धमानलक्षगणानां तु तीर्थकृतां कुमारत्वपर्यायो व्रतपर्यायश्चेत्येतदेव द्वयं चतसृभिः गाथाभिरुक्तं, न राज्यपर्यायः, अनङ्गीकृतराज्य त्वेन प्रतिपादितत्त्वात्तेषां तदसंभवादिति, शान्तिकुन्थ्वरलक्षणस्य तु तीर्थकरत्रयस्य तिसृभिर्गाथाभिः कुमारमाण्डलिकचक्रवर्त्तिदीक्षापर्यायलक्षणं चतुष्टयं २ उक्तं, चक्रवर्तित्वात्तेषां, तत्र माण्डलिकोऽनवाप्तचक्ररत्नादिचक्रवर्तिलक्ष्मीकः सामान्यो राजा उच्यते, शेषाणां तु सप्तानां तीर्थकृतां सप्तभिर्गाथाभिः कुमारराज्यदीक्षापर्यायलक्षणं त्रयं २ प्रतिपादितं, अङ्गीकृतराज्यत्वात्तेषामचक्रवर्तित्वाच्चेति । अपरं चेह-'अड्डाइज्जा लक्खा कुमारयासो ससिप्पहे होई। अद्धं छच्चिय रज्जे'त्ति क्वचिदेवं पाठः, क्वचित्तु 'अछुट्टावि अ लक्खा कुमारवासो ससिप्पहे होई । अद्धच्छहायरज्जेत्येवं, क्वचित्तु 'अड्डाइज्जा लक्खा कुमारवासो ससिप्पहे होई । अद्धच्छट्ट य रज्जेत्येवं दृश्यते ३, इति पाठत्रयं, तत्र चरमपाठोऽशुद्ध एव, सर्वायुष्केण सह विसंवादित्वात् , तथाहि-'चउरासीतिबिसत्तरीत्यादिगाथायामनन्तरमेवास्य दश पूर्वलक्षाण्यायुः प्रतिपादयिष्यते, अस्मिँस्तु पाठे दीक्षापर्यायसत्के चतुर्विंशतिभिः पूर्वाङ्गैन्यूँने पूर्वलक्षे क्षिप्तेऽपि नवैव पूर्वलक्षाण्यागच्छ-1 SCALCUCAUSACROSA ॥१७॥ Jan Education For Private & Personal use only How.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy