SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ नाधम्मोपायतया प्रेर्यन्ते ?, अथ विवेकिनां महासत्त्वानां शुभाध्यवसायहेतुत्वेन धर्मोपायभूतान्येवामूनि, यद्येवमुक्तविशेपणविशिष्टानां दयापरिणतिजनकत्वेन जीवनिकायेष्वपि समानमिदं पश्याम इत्यलं प्रसङ्गेनेति गाथार्थः॥ साम्प्रतं पर्यायद्वारं प्रकृतं, तत्र कस्य तीर्थकरस्य कियान दीक्षाकाल इति प्रतिपादयन्नाह-'उसभस्स पुवलक्खं' गाहा 'पणवीसं गाहा 'चउप्पन्नं' गाहा 'तेवीसंच' गाहा 'अट्ठमा' (१४०), व्याख्या-इह पूर्वाङ्गं चतुरशीतिवर्षलक्षप्रमाणं पूर्बाङ्गे४ाणैव गुण्यते तत एकं पूर्व भवति, तत्त्विदं-७०५६००००००००००, तदुक्तं-"पुबस्स य परिमाणं सयरिं खलु होति कोडिलक्खाओ । छप्पन्नं च सहस्सा बोद्धबा वासकोडीणं ॥१॥” तत्राद्यतीर्थकृत ऋषभस्वामिन उक्तस्वरूपाणां पूर्वाभणामेकं लक्षं दीक्षाकालो विज्ञेयः १, तदेव पूर्वलक्षं पूर्वाङ्गेन-चतुरशीतिवर्षलक्षप्रमाणेन न्यूनमजितस्य द्वितीयतीर्थकृतो दीक्षाकालः २ इत ऊर्ध्वं चतुर्भिः पूर्वाङ्गैः पुनः २ न्यूनं पूर्वलक्षं तावन्नेयं यावत्सुविधिर्नवमस्तीर्थकरः, तद्यथा-चतुर्भिः पूर्वाङ्गैन्यूनं पूर्वलक्ष ३ अष्टभिः पूर्वाङ्गैन्यूनं पूर्वलक्षं ४ द्वादशभिः पूर्वाङ्गैन्यूनं पूर्वलक्षं ५ षोडशभिः पूर्वाङ्गैयूनं पूर्वलक्ष ६ विंशतिभिः पूर्वाङ्गैन्यून पूर्वलक्षं ७ चतुर्विंशतिभिः पूर्वाङ्गैन्यूनं पूर्वलक्षं ८ अष्टाविंशतिभिः पूर्वाङ्गैन्यून पूर्वलक्षं ९ एवं सुविधिं यावदतिदेशेनाभिधाय शीतलप्रभृतीनां प्रत्येकमभिधित्सुराह-शीतलस्य पुनः पञ्चविंशतिः पूर्वसहस्राणि पर्यायः १० श्रेयांसस्यकविंशतिवर्षलक्षाणि ११ चतुःपञ्चाशद्वर्षलक्षाणि १२ पञ्चदशवर्षलक्षाणि १३ ततः सार्द्ध सप्तवर्षलक्षाणि १४ ततः सार्द्धवर्षलक्षद्वयं १५ पञ्चविंशतिवर्षसहस्राणि १६ त्रयोविंशतिवर्षसहस्राणि सार्द्धसप्तशताधिकानि भवन्ति १७ एक|विंशतिवर्षसहस्राणि १८ वर्षशतन्यूनानि पञ्चपञ्चाशत् वर्षसहस्राणि १९ सार्द्धसप्त वर्षसहस्राणि २० सार्द्ध वर्षसहस्रद्वयं 26 Jain Educatio n al For Private & Personal use only TMw.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy