________________
आव० हारि०
टीप्पणं
॥ १६ ॥
Jain Education
इत्येतस्मिन् द्वारे धर्म्मः - क्षान्त्यादिको दशप्रकारः, स चेह शैलेश्यावस्थाप्राप्तस्य सम्बन्धी प्रकर्षप्राप्तो गृह्यते, तस्य चोपायो - येनासौ प्राप्यते स वक्तव्यः, तस्य चोपायस्य देशका वक्तव्याः, एतदुभयमप्याह - 'धम्मोवातो पवयण' गाहा ( १४० - १७ ), व्याख्या - धर्मस्योपायः, क इत्याह- 'प्रवचनं' द्वादशाङ्गीस्वरूपं चरमाङ्गान्तर्वतीनि वा पूर्वाणि उक्तस्वरूपधर्म्मस्य प्रायुपायः, एतदुक्तानुष्ठानादेव तदवाप्तेरिति । धर्मोपायमुपदर्श्य तस्य देशकानाह - देशकास्तस्य - धम्र्मोपायस्य, के इत्याह- सर्वे जिनानामृषभादीनां गणधराः - ऋषभसेनेन्द्रभूत्यादयो, ये च यस्य तीर्थकृतश्चतुर्दशपूर्वविदो यावन्तस्ते धर्मोपायस्य देशका नान्ये, तेषामेव यथोक्तधर्म्मस्वरूपवेत्तृत्वादिति गाथार्थः । प्रकारान्तरेण धर्मोपायमुपदर्शयन्नाह - 'सामाइयाइया वा' गाहा ( १४० - १८ ), व्याख्या – सामायिकमादिर्यासां ताः सामायिकादयः, सामायिकपूर्विका इत्यर्थः, व्रतानि - प्राणातिपातविरमणादीनि जीवनिकायाः - पृथिव्यादयः भावनाः - 'इरिआसमिए सयाजए' इत्यादिग्रन्थप्रतिपादिताः पञ्चव्रतसम्बन्धिन्यः पञ्चविंशतिः अनित्यत्वादिविषया वा द्वादश, एषां द्वन्द्वे व्रतजीवनिकायभावनाः, | सामायिकाङ्गीकार पूर्विकाः सत्यो व्रतजीवनिकायभावना इत्येष धम्र्मोपायो जिनैः सर्वैर्निर्दिष्ट इति सण्टङ्कः । कदा निर्दिष्ट इत्याह- 'प्रथम' मिति आद्यसमवसरणप्रवर्त्तनावसर एवेत्यर्थः । यदिवा प्रथममोघतस्तावदाद्यदीक्षाप्रतिपत्तिसमये एष धर्मोपायः, उत्तरकालं तु जिनकल्पपरिहारविशुद्धिकभिक्षुप्रतिमाऽभिग्रहादिभेदभिन्नोऽनेकविधो द्रष्टव्य इति भावः, ननु सामायिकादीनां धर्म्मोपायत्वमस्तु, जीवनिकायानां तु कथं ?, केपाश्चित् क्लिष्टसत्त्वानां वधपरिणतिहेतुत्वेन प्रत्युताधम्र्म्मोपायत्वात्तेषामिति, हन्त यद्येवं सामायिकादीन्यपि केषाञ्चित् क्षुद्रसत्त्वानामसदध्यवसायजनकत्वेन किं
For Private & Personal Use Only
जिनगण संख्यादि
॥ १६ ॥
www.jainelibrary.org