________________
श्राविकापूर्वधरादिसङ्ख्या तु प्रथमानुयोगतो ज्ञेया, अनुयोगपटेष्वपि दृश्यते, परं मया न लिखिता, तेषामपि परस्परं विसंवादित्वादिति । 'कल्पात्तत्र कृतसमवसरणापेक्षये ति(१४०-४), कल्पोऽवश्यं तीर्थकृतां प्रथमसमवसरणं भवत्येव, अतो जन्तूनामनवबोधं पश्यताऽपि कल्पाद्-अवश्यंकर्त्तव्याद्भगवता तत्र समवसरणमकारि, तदपेक्षया मध्यमासकं द्वितीयमिति भावः। गणसङ्ख्या प्रतिपादनावसरे चुलसी'त्यादिगाथात्रयमेताश्च तिस्रोऽपि गाथा निगदसिद्धा अप्यङ्कतो विभज्यन्तेचुलसीति १पंचणउती २ विउत्तरं ३ सोलसुत्तर, षोडशोत्तरं शतमिति गम्यते ४ सयं च ५। सत्तहिअं ६ पणणउती ७ तिणउती ८ अठ्ठसीती य ९॥१॥ एक्कासीइ १० छावत्तरी अ (बावत्तरी वृ०)११ छावठि १२ सत्तवन्ना य १३। पन्ना १४२ तेयालीसा १५ छत्तीसा चेव १६ पणतीसा १७ ॥२॥ तित्तीस १८ अहवीसा १९ अठारस २० तय चेव (चेव तहय वृ०) सत्तरस २१ । एक्कारस २२ दस२३ नवगं२४ गणाण माणं जिणिंदाणं॥३॥ गणानां-एकवाचनाचारक्रियास्थयतिसमुदायानां मानमुक्तरूपं वृषभादिजिनेन्द्राणां यथाक्रमं विज्ञेयमिति, न कुलसमुदाय इति, 'तत्थ कुलं विन्नेयं एगायरियस्स संतती
जा य । दोण्ह मिहो णेगाण व साविक्खाणं गणो भणिओ॥१॥ इति वचनाद्योऽयमन्यत्र कुलसमुदायरूपो गणोऽभिहै हितः स इह न गृह्यते, किन्तूक्तस्वरूप एवेति भावः। तत्र श्रीमन्महावीरगणधरद्वयस्य यथाप्रवृत्त्यैव कथञ्चित्सूत्रविरचने
एकैव वाचना, सामाचार्यप्येकैवाभूदिति गणधरद्वयेनापि गण एक एवाभूद्, एवमपरस्यापि गणधरद्वयस्यैवमेव वाच्यम् ,
एवं च भगवतो महावीरस्यैकादशभिरपि गणधरैर्गणा नवैवाभूवन्निति, शेषतीर्थकृतां तु यावन्तो गणधरा गणा अपि तावन्त है एवेति, एतदेवाह-'एक्कारस उ गणहरा' गाहा (१४०-१४), उक्ताथैवेति । 'धर्मोपायस्य देशका' (१४०-१५),
ACCORRECACCCCCC
For Private & Personal Use Only
w w.jainelibrary.org
Jain EducatA40onal
IITT