SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं ॥ १३ ॥ Jain Education सामायिकमर्थरूपं रूढितो नपुंसक' मिति (१०७ - ३ ), समतालक्षणो ह्यर्थः किल पुंलिङ्गः, स च रूढिवशाल्लोके नपुंसकत्वेन प्रतीत इति समतालक्षणमर्थरूपं निर्देश्यमाश्रित्य नैगमनयः सामायिकस्य नपुंसकनिर्देशमिच्छति, यदिवा निर्देश्यमेवाश्रित्यैतन्मतेन सामायिकस्य प्रकारान्तरेण लिङ्गत्रयनिर्देशोऽपि घटत इति दर्शयितुमाह - 'तथा सामायिकवतः स्त्रीपुंनपुंसके' त्यादि ( १०७ - ४ ), तदेवं निर्देश्यवशात् केवलो नपुंसकनिर्देश एव लिङ्गत्रयनिर्देशोऽपि चेति दर्शितं, साम्प्रतं निर्देशक शात्रिलिङ्गता दर्शयितुमाह' - तथा निर्देष्टु' रित्यादि (१०७ - ५ ), सुगमम्, 'यदा पुमान् पुमाँस स्त्रियं चाहे त्यादि (१०७-१७), इदमुक्तं भवति - ननु पुंसः पुमांसं निर्दिशतः पुंनिर्देशः स्त्रियं निर्द्दिशतस्तदुपयोगानन्यत्वात्स्त्रीनिर्देशो नपुंसकमभिदधतस्तदुपयोगानन्यत्वादेव नपुंसकनिर्देश इति प्रत्येक वस्त्वभिधाने शब्दनयमतमवगन्तव्यं, यदा त्वसमानलिङ्गे द्वे वस्तुनी पुमान् निद्दिशति तदा किं भवतीत्यभिदधानं शिष्यमाशङ्क्य सूरिराह - 'असमान लिङ्गनिर्देशस्त्ववस्त्वेवे'ति, असमानं लिङ्गं ययोः स्त्रीपुरुषयोस्तयोरेककालमेकेन वक्रा योऽसौ निर्देशः सोऽवस्त्वेव, तमेव निर्देशं दर्शयति'यदा पुमानित्यादि, ननु कथमस्य निर्देशस्यावस्तुत्वमित्याह - ' तस्य पुरुषयोषिदित्यादि (१०७-१८ ), तस्य - वक्तुः पुंसः पुरुषयोषिदापत्तेरिति सम्बन्धः केन ? - 'पुरुषयोषिद्विज्ञानोपयोगे त्यादि, इदमुक्तं भवति - पुरुषविज्ञानोपयोगस्य योषिद्विज्ञानोपयोगस्य च परस्परं भेदोऽभेदो वा ?, यदि भेदस्तदा वक्तुः परस्परविभिन्नपुरुषयोषिद्रूपतापत्तिः, तदुपयोगा नन्यत्वाद्, अथाभेदोऽत्रापि तत एव हेतोर्वक्तुः परस्परं सङ्कीर्णशबलरूपपुरुषयोषिद्रूपतापत्तिरेवेति पुरुषयोषिद्विज्ञानोपयोगयोः परस्परं भेदेऽभेदे वा वक्तुः पुरुषयोषिदापत्तिरेवेति भावनीयमिति । ननु वक्तुः सम्बन्धिन उपयोगस्य पुरुषयोषिद्रु For Private & Personal Use Only निर्देश्यनि|र्देशकवशा लिङ्गम् ॥ १३ ॥ www.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy