________________
त्वाददोषो, विशेषार्थिना तु भाष्यविवरणमन्वेषणीयमिति गाथार्थः। 'अस्थाणत्थनिउत्ता'गाहा (९९-७), अस्थाने-अनौहै चित्येनार्थेषु-प्रयोजनेष्वर्थान्-सूत्रार्थरूपान्नियुक्ते अस्थानार्थनियोक्ता गुरुर्न भवतीति योगो,विधिना प्रतिपादिते वा अर्थे गुरु
भिविपरीतार्थनियोक्ता शिव्यो न भवति, केव केषां ?-विपरीतनियोकी आभरणानां जीर्णश्रेष्ठिदुहितेवेति गाथार्थः। 'अंबत्तणेण जीहाएँ' गाहा (१०२-११), इह किल हंसस्य जिह्वा अम्ला भवति, ततश्चासौ यदा दुग्धमिश्रोदकमध्ये चनुपुटं क्षिपति तदा तजिह्वाया अम्लत्वगुणेन दुग्धे वित्रुड़िते 'कूइया होति'त्ति दुग्धवराटिका भवन्तीत्यर्थः, ततो हंसो जलं मुक्त्वा वराटिकाभिः स्थितं दुग्धमापिबति एवं सुशिष्योऽपि दोषान्मुक्त्वा गुणान् गृह्णातीति गाथार्थः। 'एवं
१ यद्यपि पूज्यैरेव खयं विशेषावश्यकं विवृण्वद्भिरेषा गाथाऽनुयोगविषयाणां द्रव्यादीनां परस्परसमावेशार्थकतया पश्चाद् व्याख्याता अत्र चानुयोगसमावेशकतया, तथाऽपि न कथञ्चनापि हार्दमुद्भावितं नीयते तत एवमुक्तौ न काञ्चिद्धानि पश्यामः यदुत द्रव्यस्य गुणपर्यायवत्त्वात् केवलस्य द्रव्यस्याभावात् यदा यदा द्रव्यानुयोगः क्रियते तदाऽवश्यं भावानुयोगः कर्त्तव्यतामापनीपद्यते एव, तथा च द्रव्यानुयोगे क्रियमाणे नियमत एव भावानुयोगस्य कृतिः, तथा भावो न द्रव्याश्रयमन्तरा व्यं च न क्षेत्रमाधारमवस्थितिलक्षणं च कालं. व्यतिरिच्येति द्रव्ये भावे |च व्याख्यायमाने अवश्यमेव तद्व्याख्यासंपूर्णतायै क्षेत्रकालव्याख्यानकृतिरिति न तौ क्षेत्रकालाभ्यां विना व्याख्येयाविति न क्षेत्रकालाभ्यां । |विना द्रव्यभावयोर्व्याख्यान, यदा च आधारभूतमाकाशरूपं केवलं क्षेत्रं व्याख्यायते तदा आधेयतद्गुणादिस्थितिरूपाणां द्रव्यादीनां व्याख्यानं नातीवोपयुक्तं न चाविनाभूतमिति भजना, तथा वर्तनारूपे काले स्वतन्त्रतया व्याख्यायमाने न द्रव्यभावक्षेत्रानुयोगानामुपयुक्ततेति 'काले भयणाए तीसुपि' द्रव्याद्यनुयोगविषयिण्या सत्तेतररूपभजनया कालानुयोगःस्यादिति ।
ASISTIDOS
Jalara
t
ional
For Privale & Personal use only
ww.jainelibrary.org