SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आव० हारिक टीप्पण नानिद्रव्या द्यनुयोगसमावेशः ॥१२॥ शिष्याणामनुग्रहार्थमित्यर्थः स्वकर्मनिर्जरणार्थ च, तथा श्रुतपर्यवजातेन हेतुभूतेन वाचयेत् शिष्यान् , श्रुतं वाचयतः श्रुतपर्यवजातं-श्रुतपर्यायराशिर्मम वृद्धिं यास्यति, शिष्यान् वाचयतो ममापि श्रुतं निर्मलं भविष्यतीति कृतबुद्धिर्वा श्रुतं वाचयेदित्यर्थः । 'दवे नियमा भावो'गाहा (८८-१९), व्याख्या-'द्रव्ये' इति द्रव्यविषयेऽनुयोगे नियमाझावो-निश्चयेन भावानुयोगोऽस्ति, तदव्याख्याने द्रव्यस्य व्याख्यातुमशक्यत्वादिति, 'न विणा ते यावि खेत्तकालहिं ति तावपिद्रव्यभावानुयोगी क्षेत्रकालानुयोगाभ्यां विना न भवतः, तद्विशिष्टत्वात्तयोः, तथाहि-पर्यायाधारं द्रव्यं व्याख्यानयन्नवश्यमेव क्वचिदवगाढं व्याचष्टे स्थितिमच्चेति, तथा क्षेत्रानुयोगे क्रियमाणे त्रयाणामपि-द्रव्यकालभावानुयोगानां भजना कदाचित्सन्ति कदाचिन्नेति, अलोकलक्षणे हि क्षेत्रे विचार्यमाणे तत्र परमाण्वादिद्रव्यस्याभावादाकाशद्रव्यस्य च क्षेत्रद्वाहरेणैव गृहीतत्वाद्रव्यानुयोगाभावः, समयादिरूपकालस्य च तत्राभावात्कालानुयोगाभावः, अगुरुलध्वादिक्षेत्रपर्यायाणामविवदक्षितत्वात्क्षेत्रग्रहणेनैव च तेषां गृहीतत्वाद्भावानुयोगाभावोऽपि भावनीय इत्यलोकक्षेत्रे त्रयोऽप्यनुयोगा न विद्यन्ते, लोके तु समयक्षेत्रादौ सन्तीति भजना । तथा त्रिष्वपि-द्रव्यक्षेत्रभावेषु कालानुयोगो भजनीयः, समयादिलक्षणो हि कालः समयक्षेत्रान्तर्वर्त्तिद्रव्यादिष्वस्ति बहिर्वतिषु तु नास्तीति भजना, ननु यद्येवं 'न विणा ते यावि खेत्तकालहिं'इत्यत्र कालमन्तरेण द्रव्यभावौ न भवत इति यदुक्तं तद्विरुध्यते, समयक्षेत्राद्वहिस्तमन्तरेणापि तयोः सुलभत्वात् , सत्यं, किन्तु पूर्व वर्तनारूपस्यैव कालस्य विवक्षितत्वात्तस्य सर्वव्यापित्वाद्, अत्र तु समयक्षेत्रनियतसमयादिरूपस्यैव कालस्य विवक्षित ॥१२॥ Jain Education For Private Personal Use Only Miw.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy