________________
ECAUSESAROSCORMALSOCIRCHROERY
लक्षणविसंवादिनो भवन्तीत्यधस्तनकायमडभमिदमुच्यते, कोष्ठस्यात्र विशिष्टप्रमाणलक्षणोपेतत्वादिति ५, 'हुण्डं तु सर्वत्रासंस्थितं' सर्वशरीरावयवानां प्रायस्तत्र यथोक्तप्रमाणलक्षणविसंवादित्वादिति गाथार्थः। वचनानुयोगं व्याख्यानयता यदुक्तं 'षोडशानां वेति (८८-१२), तत्रायमर्थः-एकवचनादिस्वरूपाविर्भावक व्याख्यानं वचनानुयोगोऽभिधीयते, षोडशवचनस्वरूपाविर्भावकं वा, कानि पुनस्तानि षोडश वचनानीति चेद्, उच्यते, 'लिंगतियं वयणतियं कालतियं तह परोक्खपञ्चक्खं । उवणयवणयचउद्धा अब्भत्थं होइ सोलसमं । १। व्याख्या-इयं स्त्री अयं पुरुषः इदं कुलमिति त्रीणि लिङ्गप्रधानानि वचनानि-लिङ्गवचनानि, एको द्वौ बहव इत्येकत्वाद्यभिधायकशब्दसन्दर्भो वचनत्रिकं, अकरोत्करोति करिप्यतीत्यतीतादिकालनिर्देशप्रधानं वचनं 'कालतियंति कालत्रिकवचनमित्यर्थः, तथा स इति परोक्षनिर्देशः परोक्षवचनं, अयमिति प्रत्यक्षनिर्देशः प्रत्यक्षवचनं, उपनयापनयवचनं तु चतुर्द्धा भवति, तद्यथा-रूपवती स्त्री सुशीला चेति उपनयोपनयवचनं, रूपवती स्त्री परं कुशीलेत्युपनयापनयवचनं, कुरुपा परं सुशीलेत्यपनयोपनयवचनं, कुरूपा कुशीला चेत्यपनया-1 पनयवचनं, यत्रान्यच्चेतसि निधाय विप्रतारकबुद्ध्याऽन्यन्न वक्ति, किन्तु तद्यथा विवक्षितं तत्तथैव मनःशुद्ध्या ब्रवीति | तत् षोडशमध्यात्मवचनमित्येतेषां षोडशानां वचनविशेषाणां स्वरूपाविर्भावकं व्याख्यानं वचनानुयोग इति गाथार्थः। 'पंचहिं ठाणेहिं सुयं वाइजेत्यादि (८८-१५), यद्याचार्यः शिष्यान् श्रुतं न ग्राहयति तदा तं परित्यज्य श्रुतार्थिनस्तेऽन्यत्र गच्छेयुरिति कथं नु नाम मयैते शिष्याः सङ्ग्रहीता भविष्यन्तीति बुद्ध्या श्रुतं वाचयति, उपग्रहार्थ वा-तेषामेव
ACROSOCIRCROCARLORDCORRECECOGA
यवचनं तु चतु धनमित्यर्थः, तथा स इनकि, अकरोत्करोति लङ्ग-3
Jain Educa
t ional
For Privale & Personal use only
Diwww.jainelibrary.org