________________
आव ०
हारि०
टीप्पणं
॥ ११ ॥
Jain Education
द्विसप्ततिकर्म्मप्रकृतिकदम्बकमध्ये तत्क्षपयति, तस्मान्मतान्तरत्वेनेह सप्तदशानामुपन्यासो न विरुध्यत इति । 'समचउरंसे नग्गोह मंडले' इत्यादिगाथा निर्दिष्टानामेव संस्थानानां स्वरूपव्याचिख्यासया प्राह - 'तुल्लं वित्थडबहुलं गाहा (८५-९), तत्र नाभेरधस्तादूर्द्ध च सर्वत्र शास्त्रोक्त समस्त शरीर लक्षणाविसंवादित्वात्समचतुरस्रं तुल्यमुच्यते, तद्धि किलैवं व्युत्पाद्यते - | समाः - शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत्समचतुरस्रं, 'सुप्रातसुश्व सुदिवशारिकुक्षचतुरश्रेणी पदा| जपदप्रोष्ठपदादि' (पा- ५ - ४ - १२० ) त्यकारः समासान्तः, अत्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवाः, ततश्च सर्वे| ऽप्यवयवाः शरीर लक्षणोक्तप्रमाणाविसंवादिनो यस्य न न्यूनाधिकप्रमाणा इति तत्तुल्यं भवत्येव १, तथा न्यग्रोधवत्परिमण्डलं, यथा न्यग्रोध उपरि सम्पूर्णावयवो भवति अधस्तु न तथा तथेदमप्यत एवाह - ' वित्थडबहुलं'ति, नाभेरुपरि विस्तरबहुलं शरीरलक्षणोक्तप्रमाणभाक् अधस्तु हीनाधिकप्रमाणमिति भावः २, तृतीयं सादि कथम्भूतं भवतीत्याह - 'उस्सेहबहु ति, उत्सेधशब्देन नाभेरधस्तनदेहभागो गृह्यते, उत्सेधेन बहुपरिपूर्णं नाभेरधस्तनदेहभागे शरीरलक्षणोक्तप्रमाणभाग् भवतीत्यर्थः, अत एव तत्सादीत्यभिधीयते, सह आदिना- उत्सेधाख्यनाभेरधस्तनकायेन वर्त्तत इति सादि, सर्वमेव हि शरीर| मभिहितस्वरूपेणादिना सह वर्त्तत एवेति विशेषणान्यथानुपपत्तेरादिरिह वैशिष्ट्योपेतो लभ्यते ३, वामनं तु मडभकोष्ठं, अत्र | किल पाणिपादशिरोग्रीवं शरीरल क्षणोक्तप्रमाणयुक्तं भवति, शेषं तु हृदयोदरपृष्ठरूपं कोष्ठं हीनाधिकप्रमाणत्वान्मडभमितिकृत्वा मडभकोष्ठमिदमुच्यते ४, कुळं त्वधस्तनकायमडभं, अधस्तनकायशब्देन चेह करचरणोरुग्रीवाशिरःप्रभृतयोऽवयवा गृह्यन्ते, 'उस्सेहमहोकाओ करचरणाई य हिडिल्लो' इतिवचनात्, ते चात्र मडभाः - हीनाधिकप्रमाणोपेता यथोक्त
For Private & Personal Use Only
संस्थान पङ्कं
॥ ११ ॥
jainelibrary.org