________________
आवश्यका घि.विनयकथा सुखा वतारत्वादि
आवशवहति, तत्त्वं तु गुरवो विदन्तीति, द्वयोरपि च चेष्टा प्रच्छन्नपुरुषैराज्ञे निवेदिता, प्रतिपन्नं चानेन-साधूनामनुत्तरो विनय हारि० इति, तदपरेणापि मुमुक्षुणा तत्साधुवदाचरणीयमिति । 'इदं च निरुक्तिद्वारे सूत्रस्पर्शिकनियुक्तौ'चेत्यादि (५८-७) टीप्पणं
तत्र 'उद्देसे निद्देसे अ निग्गमे इत्यादि यद्वारगाथाद्वयं भणिष्यति तद्वितीयगाथान्ते 'भवागरिसफासणनिरुत्ती- ॥१०॥
त्यनेनोपात्तं निरुक्तिद्वारं अध्यवसानपर्यन्तवर्त्तिन्या 'सामाइअं समइ सम्मावाओ'इत्यादिगाथया व्याख्यास्यते, | अत्र तावन्निरुक्तिद्वारायातं सामायिक व्याख्यातं, तथा 'नंदिमणुओगदारं'इत्यादिना च भणिष्यमाणसूत्रस्पर्शिकनियुक्तौ 'सामं समं च सम्मं इगमिति सामाइअस्स एगट्ठा इत्यादिगाथायां च सामायिकव्याख्या करिष्यत इति भावः, शेषं प्रकटार्थमिति । 'सुखावतार'मित्यादि (५९-१९), सुखावतारं सुखोत्तारं सरजस्कदर्शनमिति संटङ्कः, कथं ?, तत्र कष्टानुष्ठाननियमस्य कस्यचिदभावाद्यथाकथंचिद्रूपतयाऽपि व्रतपरिपालनस्य तैरभिधानात् सुखेनैव तद्दीक्षा प्राणिनः प्रतिपद्यन्त इति सुखावतारता, तथा न तेषां दर्शने तथाविधवासकस्वभावा काचिन्निपुणा युक्तिरस्ति यद्वासितान्तरात्मा पुमाँस्तद्दीक्षां न परित्यजेत् , किञ्च-"शैवो द्वादश वर्षाणि, व्रतं कृत्वा ततः परम् । यद्यशक्तस्त्यजेतापि, यागं कृत्वा व्रतेश्वरम् ॥१॥” इति दीक्षात्यागस्य निर्दोषतयाऽप्यभिधानात्सुखोत्तरत्तेति ?, सुखावतारं दुरुत्तारं शाक्यानां, तत्र 'मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराहे। द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥ इत्यभिधानात् , तथा 'मणुन्नं भोअणं भोचे'त्याद्यभिधानाच्च सुखावतारता, तथा वासकनिपुणयुक्तिसद्भावातत्यागे च महतः संसारदण्डादेः प्रतिपादनादुरुत्तारतेति २, तृतीयं बोटिकानां, तत्र नाम्यादिकष्टस्य दुरध्य
*CCCCCCC
JainEducation
For Private & Personal Use Only
Owainelibrary.org