________________
आव० हारि० टीप्पणं
तत्वं
तद्धद्धिर्न द्रव्यवृद्ध्यपेक्षेति, अतो यस्य क्षेत्रादेर्यथैव चातुर्विध्यादिक्रमेण वृद्धिानिर्वा प्रोक्ता तस्य तथैव युक्ता, कुतः ? अवधिज्ञाइत्याह-प्रतिनियतविषयत्वादिति' (४३-१८), प्रतिनियतो ह्यवधिविषयतया चिन्त्यमानयोः क्षेत्रादिवृद्धिहान्यो-ने द्रव्याधि विषयः, तद्यथा-वुड्डी वा हाणी वा चउविहे'त्यादि, नन्वेतदप्यवधिविषयतया चिन्त्यमानयोवृद्धिहान्योः प्रतिनियत
| वृद्धिनियविषयत्वं कुतः ? इत्याह-'विचित्रे'त्यादि, अवधेर्निबन्धनं क्षयोपशमः स च विचित्रोऽतस्तद्वशाजायमाने वृद्धिहानी | उक्तक्रमणैव भवत इत्यलं प्रसङ्गेनेति । 'लोचनद्वयोपयोगवदि'त्यत्र (४३-२४ ) सप्तम्यन्ताद्वतिः, यथा किल लोचनद्वयस्याप्युपयोगे -व्यापारे सति जीवस्यैकदा एक एवोपयोगः एवमनेकस्पर्द्धकव्यापारेऽप्येक एवास्योपयोग इति, यदिवा यः प्रकाशमयस्तस्यैकस्मिन्नप्यर्थे प्रकाशकत्वेन व्याप्रियमाणस्य सर्वात्मना व्यापारो न देशतः, यथा प्रदीपस्य, जीवोऽपि ज्ञानप्रकाशेन प्रकाशवान् ततोऽस्यापि सर्वस्पर्द्धकैरेकोपयोगतया सर्वात्मना व्यापार इति, एतदेवाह-'प्रकाशमये'त्यादि,उक्तार्थमेव, नवरं प्रदीपस्योपयोगो-व्यापारः स इव-तद्वत् , प्रदीपस्य हि प्रकाशने व्याप्रियमाणस्य प्रत्यर्थ सर्वात्मना व्यापारः न देशतः, एवं जीवस्यापीति भावः । क्षेत्रद्वारे 'संखेजमसंखेज्जा' गाहा (४६-९), अत्रायं तात्पर्यार्थः-यस्तावदसम्बद्धोऽवधिर्भवति स 'पुरुषाबाधया हेतुभूतया' (४६-१३ ), अवधिपुरुषयोर्यदन्तरालं तेन हेतुभूतेनासम्बद्धोऽवधिर्भवतीत्यर्थः, स चावधिः सङ्ख्येयक्षेत्रविषयोऽसङ्ग्येयक्षेत्रविषयो वा भवति, यदिवा पुरुषाबाधया 'सहेति सहार्थे तृतीया,
॥९॥ कोऽर्थः ?-पुरुषावध्योरन्तरालं सङ्ख्येयमसयेयं च भवति अवधिश्च सङ्ख्येयोऽसङ्ख्येयश्च भवतीति, एतदेवाह-'इदानीमबाधया चिन्त्यत इत्यादि (४६-१५), शेषं सुगमं यावज्ज्ञानपञ्चकसमाप्तिः, नवरं 'केवलनाणेणऽत्थे'इत्यादिगाथां
552952-%%*
555
Jain Education
a
nal
For Privale & Personal use only
jainelibrary.org