SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Jain Educatio ऽनुक्तत्वात्कथमवसेयः ? इत्याह- 'अत एवेत्यादि, अत एव च - सामर्थ्यादेव च तदुपर्यपि - कर्मद्रव्योपर्यपि ध्रुववर्गणादिकं सर्वमपि परमाणुपर्यवसानं द्रव्यं पश्यतः क्षेत्रकालवृद्धिः क्रमेण ज्ञेया यावत्परमावधिविषय इति, कर्मद्रव्यातिक्रममात्रेऽपि हि क्षेत्रतो लोकप्रमाणोऽवधिरुक्तः यस्तु सर्वमपि ध्रुववर्गणादिद्रव्यं पश्यति तस्यातिविशुद्धत्वात् सामर्थ्यादेव परमावधेः सम्भवोऽनुमीयत इति भावः । स च पल्योपमासङ्ख्येय भागसमुदायमान' इति ( ३७ - १ ), पल्योपमासङ्ख्येयभागरूपो यः समुदायः स एव मानं यस्य स तथा पल्योपमासयेयभाग इतियावत्, न पुनः समुदायशब्दमधिकमालोक्यार्थान्तरं कल्पनीयमिति । 'सामान्यं न्यायमङ्गीकृत्येत्थमेवेत्यादि ( ४३ - १५ ), इदमुक्तं भवति - क्षेत्रस्यासंख्येयप्रदेशात्मकत्वाद् यदि द्रव्यमपि तदवगाढत्वादसङ्ख्येयभागैः परिकल्प्य क्षेत्रस्य प्राधान्यात्तदनुवृत्त्या वृद्धिं नीयते तदा क्षेत्रवद्रव्यस्यापि चतुर्विधैव वृद्धिः स्यात्, यदा तु क्षेत्रनिरपेक्षमेवावधिज्ञानविषयतया स्वतन्त्रं द्रव्यं चिन्त्यते तदा तस्य द्विविधैव वृद्धिः, ननु तथाऽपि पर्यायवद्रव्यस्यापि षड्विधा वृद्धिः कस्मान्न भवति आनन्त्यस्योभयत्रापि समानत्वात् ?, अत्रोच्यते, पर्यायाणां ह्यपरक्षेत्रादिवृद्ध्यभावेऽप्यवस्थित एव क्षेत्रादावसङ्ख्येयभागादिवृद्धिः संभाव्यते, द्रव्यस्य त्ववस्थितक्षेत्रेऽनन्तभागलक्षणैव वृद्धिर्लभ्यते, यदा त्वधिकं विशुद्ध्यमानको भवति तदा क्षेत्रमपि वर्द्धते तस्मिंश्च वर्द्धमाने शेषवृद्धिस्थानान्युलक्यानन्तगुणैव द्रव्यवृद्धिर्भवतीत्येवं तावत्संभाव्यते, तत्त्वं तु केवलिनो विदन्तीति, 'पुद्गलानुवृत्त्या च तत्पर्याया' इति, अयमत्रार्थः- पुद्गलास्तिकायस्य विद्यत एवेदं स्वरूपं, यदुत द्रव्यस्यानन्तभागादिवृद्धौ पर्यायाणामपि तावत्येवासौ भवति, पर्यायानन्तस्य सर्वद्रव्येषु समानत्वात्, किन्तु यदाऽवधेर्विषयतया पर्यायाश्चिन्त्यन्ते तदाऽवध्यावरणक्षयोपशमापेक्षैव ational For Private & Personal Use Only +++++* www.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy