________________
परम्परसूक्ष्मत्वप्रतिपादनेन कार्म्मणवर्गणाः स्वल्पाकाशप्रदेशावगाहिन्यस्ततोऽपि तैजसादीनां क्रमशो बहुप्रदेशावगाहिन्य इति सामर्थ्यादुक्तं भवति, 'प्रदेश तोऽसङ्ख्येयगुण' मित्यत्र ( त० अ० २ सू० ३९ ) प्राक्तैजसादिति विशेषो दृश्यः, यावद्भिः पुद्गलैरौदारिकं निष्पद्यते ततोऽसङ्ख्येयगुणैर्वैक्रियं ततोऽप्यसङ्ख्येयगुणैराहारकं, तैजसकार्मणे तु क्रमशोऽनन्तगुणप्रदेशनिष्पन्ने 'अनन्तगुणे परे' इति ( त० अ० २ सू० ४० ) वचनादिति । 'भेदाभेदपरिणामाभ्या' मित्यादि ( ३५ - १३ ), यावद्भिः किल पुद्गलैस्तनुवर्गणास्कन्धा निष्पद्यन्ते तेभ्यो यदा केचित् पुद्गला विभिद्य पृथग् भवन्ति अन्ये | त्वागन्तुकाः समागत्याभेदेन परिणमन्तीति आभ्यां भेदाभेदपरिणामाभ्यामेतास्तनुवर्गणा औदारिकादियोग्यबादरपरिणामाभिमुखा भवन्तीत्यर्थः । 'अयमेव सर्वोत्कृष्टप्रदेश' इत्यादि ( ३५ - १८ ), अयमेवाचित्तमहास्कन्ध उत्कृष्टपुद्गलसङ्ख्यानिर्वृत्तो, नान्ये सन्तीति केचित् एतच्चायुक्तं, कथम् ? इत्याह- 'यस्मादि त्यादि, ननु चाचित्तमहास्कन्धा अपि कालभेदेन बहवो भवन्ति तेषां च स्थित्यवगाहनादिभिः परस्परं वैषम्याद् यदिदं प्रज्ञापनायां स्थित्यवगाहनादिभिश्चतुःस्थान| पतितत्वादि वैषम्यमुक्तं तदचित्तमहास्कन्धाश्रयेणाप्युपपत्स्यते तत्कुत एतद्व्यतिरेकेणापरोत्कृष्टप्रदेशकस्कन्धसत्ता ? इत्याशङ्कयाह - 'अयं पुनस्तुल्य एवेति ( ३५ - २१ ), अयमित्येतज्जातावेकवचनं, ततश्चायमर्थः - अमी पुनरचित्तस्कन्धाः | कालभेदेन बहवोऽपि जायमानास्तुल्या एवेति एतदुक्तं भवति — यद्यप्यचित्तमहास्कन्धाः कालभेदेन बहवो भवन्ति तथाऽपि स्थितिरष्टसामयिकी अवगाहना च लोकव्याप्तिलक्षणैव सर्वेषामपि तुल्यैवेति कथं तदाश्रयेण प्रज्ञापनोक्तं स्थित्यादिवैषम्यं युज्यते ?, किं च-असौ प्रज्ञापनायामुत्कृष्टप्रदेशिकः स्कन्धोऽष्टस्पर्शः पठ्यते, अयं त्वचित्तमहास्कन्ध उत्कृ
Jain Education international
For Private & Personal Use Only
jainelibrary.org