________________
आव० हारि० टीप्पणं
॥७॥
BRAAAAAARTY
अयारते'इत्यादि (३२-१३) गाथाव्याख्या-द्वितीयाबहुवचनान्तेऽकारान्ते पदे पुंल्लिङ्गेऽभिधेयेऽन्तस्यैकारो भवति, अवधिज्ञायथा-'नमिऊण जिणवरिंदे'इत्यादि, तथा तृतीयादिष्वादिशब्दाच्चतुर्थीपरिग्रहस्ततश्च 'एगंमित्ति एकत्वे वर्तमानानां ने द्रव्यातृतीयाचतुर्थीषष्ठीसप्तमीनां स्थाने महिलत्थेत्ति-स्त्रीलिङ्गेऽभिधेये एकारो भवति, तत्र तृतीयायां यथा-'सुंदरबुद्धीए कय'
दिवृद्धिः मित्यादि, चतुर्थ्यां यथा-'गावीए पुण दिण्णं तणंपि खीरत्तणमुवेइ'इत्यादि, षष्ठ्याः स्थाने यथा-'तीए पुण विसुद्धीए कारणं होति पडिमाओ'इत्यादि,सप्तम्याः स्थाने यथाऽत्रैव, ननु तृतीयादिष्वित्यत्रादिशब्दात् किमिति न पञ्चमीपरिग्रहः?, नैवं, तत्स्थाने ओकारस्य दर्शनात् , तद्यथा-'इत्थीओ आवि संकण'मित्यादि, अत एव चात्र 'तइयाइसु छट्ठीसत्तमीण' इति व्यस्तनिर्देशः, अन्यथा ह्यादिशब्देन चतुर्थ्यादीनां सर्वासामपि विभक्तीनामनुरोधः स्यादेवेति गाथार्थः।। ननु वस्तूनां नवपुराणादयः पर्यायाः कालक्रमेणैव भवन्त्यतस्ते चेदुत्तरोत्तरकालक्रमवृद्धिभाजो वर्तन्ते तदा तद्वद्धौ सिद्धैव कालवृद्धिरतः पर्यायवृद्धौ कालो भजनीय इति यदुक्तं तदसङ्गतम् ? इत्याशङ्कयाह-'अक्रमवर्तिनामपि वृद्धिसम्भवा'-18 दित्यादि (३२-१८), इदमुक्तं भवति-यद्युत्तरोत्तरकालक्रमवृद्धिभाजो नवपुराणादय एव वस्तूनां पर्यायाः स्युस्तदा | युज्यत भवद्वचः, तच्च नास्ति, रूपरसगन्धस्पर्शतारतम्यादिपर्यायाणां मन्दक्षयोपशमावस्थानुपलब्धानां विशिष्टक्षयोपशमे सति कालक्रमवृद्ध्यभावेऽपि बहूनां युगपदेव वृद्धिसम्भवादिति भावनीयम् । 'परं परं सूक्ष्म (तत्त्वा० अ०२ सू० |३८) मित्यादि ( ३५-३), औदारिकशरीराद्वैक्रियं सूक्ष्म स्वल्पाकाशप्रदेशावगाहीतियावत् , ततोऽप्याहारकतैजसकार्मणानि क्रमशः सूक्ष्माणि, तदनेनापि किल तत्त्वार्थसूत्रेण क्षेत्रतो मद्व्याख्यात एव क्रम उक्तो भवति, अनेन हि किल
Jain Education
na
For Privale & Personal use only
O
w.jainelibrary.org