________________
त्यादि (२८-१५), अन्ये तु द्वितीयवेयं विभक्तिरित्यादिकं किञ्चिद्व्याख्यानयन्ति तत्तु यदि परं त एव विदन्ति, सकमकक्रियाया एव सूत्रेऽश्रवणादित्यलं प्रसङ्गेनेति । 'चतुर्णा द्रव्यादीनां वृद्धि'रित्यादि (३२-११), ननु काले वर्द्धमाने पारिशेष्यात् त्रयाणामेव द्रव्यक्षेत्रभावानां वृद्धिर्भवतीत्येतावदेव वक्तुमुचितं कथमुच्यते-काले वर्द्धमाने चतुर्णा है वृद्धिर्भवति ?, इत्याशङ्कयाह-'सामान्याभिधानादिति, प्रथम वर्द्धमानतया विशेषतः कालं निर्धार्य ततो वृद्धिसाम्याचतुर्णामपि सामान्येनाभिधानादिति भावः, अस्ति चायं न्यायः-एकस्मिन् रसनेन्द्रिये जिते पञ्चापि जितानि भवन्तीति, तथाऽन्धेन भोक्तुमाकारितेन जनद्वयमागच्छतीत्यादिवचनप्रवृत्तिदर्शनादिति । 'कालस्तु भक्तव्यो-विकल्पयितव्य'इत्यादि (३२-१२), यदि हि क्षेत्रस्य प्रतिप्रदशवृद्धा कालः समयवृद्ध्या वर्द्धते तदाऽङ्गुलासङ्ख्येयभागमात्रक्षेत्रवृद्धावपि काल-| तोऽसङ्ख्यया उत्सर्पिण्यवसर्पिण्यो वढेरन् , न चैतदिष्यते, अतः क्षेत्रवृद्धावपि स्थूलत्वात्कालः स्याद्वर्द्धते स्यान्नेति। 'ए होइ
१ पूर्वगाथातो वक्ष्ये इत्यस्यानुवृत्ताभात्, क्रियापदं त्वत्रापि अध्याहार्यमेव, ततश्च विभक्तिपरिणामात् 'खित्तपरिमाणे संठाणे'इत्यादौ द्वितीया वाच्या, ततश्च क्षेत्रपरिमाणं वक्तव्यमिति ब्रूमधातुना सम्बन्धयति, एवमेताः प्रतिपत्तीर्वक्ष्ये इति पर्यन्ते तत्त्वतः सम्बन्धः, संस्था-12
नप्रतिपत्तेः संख्यानं त्वनुपयोग्येवेति स्यात्तन्मतं । आदौ विषयसप्तम्या व्याख्यानेऽवधेर्मुख्यताऽभूत्, परिणामे तु तस्यैव क्षेत्रपरिमाणादेर्मु-18 लख्यतेति अवधेरियादिग्रन्थसंगतिः, द्वितीया प्रतिपत्तिरिति तु अन्ये त्वाचार्या इत्यादिना लब्धमेव, द्विरावर्त्यते इत्यपि प्राग्व्याख्यात एव सिद्धं, | यतः प्रथमं तावदवधिशब्दो नामादिभेदभिन्नऽवधौ व्याख्यातः द्वितीयोऽवधिशब्दश्चाग्रे योज्यते क्षेत्रपरिमाणविषयोऽवधिरित्यादौ ततो युक्ता आवृत्तिः, तथा च न व्याख्यानद्वयस्यावृत्तिशब्दवाच्यता, स्थानमपि च नैतदस्येति तदभिप्रायः ।
Jain Education
H
a Kell
For Private & Personal Use Only
B
Mw.jainelibrary.org