SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं ॥६॥ भावार्थः, तथा द्रव्यतो नानाजीवान् क्षेत्रतो विदेहान् कालतो विदेहसम्बन्धिकालं भावतश्च क्षायोपशमिक भावमाश्रित्य नन्द्यां श्रुत श्रुतमनाद्यपर्यवसितमिति ज्ञेयं, विशेषार्थिनातु विशेषावश्यकमनुसरणीयमिति। 'गाथाशेष'मित्यादि(२५-१८), गाथाशेष | स्यद्रव्यादि 'सत्तवि एए'इत्यादिकं व्याख्यातमेवेति सम्बन्धः, किं कुर्वता?-पूर्वमेवावधारणप्रयोगं दर्शयतेति योगः, शेष सुगम यावच्छृतज्ञानं समाप्तमिति । अवधिरधुना विवियते-'तथाऽवधिशब्दो दिरावर्त्यत इति व्याख्यात'मिति तादि अव | धिप्रति(२८-१३), एतदत्र हृदयम्-एकीयाचार्यमतेन तावदवधिशब्दः पृथगद्वारतया योजितो, द्वितीयमतेन तु वक्ष्यमाण पत्तिश्च द्वारैः सहैकत्वेन मीलयित्वाऽनन्तरंमेव भणिव्यमाणविधिना व्याख्येय इत्येवं द्विरावृत्तिः, इदं च द्विरावर्त्तनं मया पूर्वमेव व्याख्यातं, ननु पूर्व न कचिद्व्याख्यातमेतत् ? इति चेत्सत्यं, साक्षान्न व्याख्यातम् , 'अन्ये त्वाचार्या अवधिरित्येतत्पद'मित्यादिना सामर्थ्याद्विरावृत्तिर्व्याख्यातैव, कथम् ?, अवधि, नामादिभेदभिन्नो वक्तव्यः अवधेर्वा क्षेत्रपरिमाणादीनि द्वाराणि वक्तव्यानीति, प्रथममतमेवाश्रित्य तावदाह तथा क्षेत्रे'त्यादि (२८-१४ ), नन्वाद्यमते तावदवधिरित्येका प्रतिपत्तिः, क्षेत्रपरिमाणं तु द्वितीया, संस्थानमिति तृतीया, द्वितीयमते तु यदाऽवधिशब्दोऽर्थवशात्प्रथमान्तोऽपि षष्ठ्यन्तः शेषद्वारैः सह सम्बध्यते तदा संस्थानमिति कतिथी प्रतिपत्तिर्भवति ? इत्याह-'अथवा अर्थाद्विभक्ती'त्यादि (२८-१४), पातनिकयैव व्याख्यातं, केवलं द्वितीयवेयं संस्थानलक्षणा प्रतिपत्तिरिति सामर्थ्याद्गम्यते, 'एमेया पडिवत्तिओ'इति द्वितीयश्लोकान्तेऽभिधास्यमानत्वात् , कथं पुनः संस्थानं द्वितीया प्रतिपत्तिर्भवति ? इत्याह-'ततश्चावधेर्जघन्ये JamEducational For Private & Personal Use Only
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy