________________
Jain Educatio
धिज्ञानी अवधिदर्शनी च भवत्येव, ततश्चानेनापि न्यायेनावधिदर्शनी मतिज्ञानस्य प्रतिपत्ता लभ्यत एवेत्येतदाचार्यस्या - | प्येकं स्खलितमिवाभातीति, तदेतत्सर्वमयुक्तम्, अभिप्रायापरिज्ञानात्, यदि ह्यवधिदर्शनलब्धिमन्तोऽत्र विवक्षिताः स्यु- । स्तदा सर्व त्वदुक्तं शोभेत, न चैतदस्ति, अवधिदर्शनोपयोगिनामेवेह विवक्षितत्वात् न च दर्शनोपयोगे वर्त्तमानस्य मतिज्ञानप्रतिपत्तिरस्ति, लब्धित्वात्तस्य, लब्धीनां च दर्शनोपयोगे निषेधाद्, विशेषानभिधानात् कथमवधिदर्शनोपयोगिन इह विवक्षिता इति लभ्यते ? इति चेद् एतद्वचनान्यथाऽनुपपत्तेरिति ब्रूमः, तत्त्वं पुनरनुत्तरज्ञानिनो विदन्तीति शेषं सुबोधं यावन्मतिज्ञानसमाप्तिः ॥ इदानीं श्रुतज्ञानमारभ्यते, तत्र - ' अथवा द्रव्यादिचतुष्टयात्साद्यनाद्यादि अवगन्तव्यं यथा नन्द्यध्ययने इति' ( २५-१५), व्याख्यायते, एकेन प्रकारेण तावत्सादिसपर्यवसितादिविचारः कृतः, साम्प्रतमसावेव द्रव्यक्षेत्रकालभावद्वारेण नन्द्यनुसारतो विधीयते, तत्र द्रव्यत एकं जीवद्रव्यमाश्रित्य सादिसपर्यवसितं श्रुतज्ञानं, तथाहिकेनचित्तत्प्रथमतया श्रुतमवाप्तं पुनर्भवान्तरं मिथ्यात्वं वा गतस्य प्रमादग्लानत्वादिभ्यो वा कारणेभ्यः प्रतिपततीति तत्तस्य सादि सपर्यवसितं च भवति, क्षेत्रतोऽपि भरतैरावतक्षेत्राद्याश्रित्य द्वादशाङ्गश्रुतं सादि सपर्यवसितं च भवति, कालतोऽप्युत्सर्पिण्यवसर्पिणीषु तद्रूपतैव भावनीया, भावतोऽपि प्रज्ञापकोपयोगं प्रज्ञापनीयभावांश्चाश्रित्य सादिसपर्यवसि - तताऽवसेया, प्रज्ञापकोपयोगो हि प्रयत्नादिनिर्वर्त्यत्वादनित्यः, प्रज्ञापनीयभावा अपि पुद्गलादिसम्बन्धिनो गतिस्थितिवर्णगन्धादयोऽनित्या एव, यच्चानित्यं तद् घटवत्सादि सपर्यवसितमिति प्रतीतमेव, अतस्तदाश्रयं श्रुतमपि तद्रूपमेवेति
For Private & Personal Use Only
www.jainelibrary.org