________________
आव० हारिक टीप्पणं
नस्य प्रतिपद्यमानको भवति ? इत्याह-'क्रियाकालनिष्ठाकालयोरभेदादिति (२०-८), निश्चयो हि मन्यते यदैव ला मतिज्ञानसम्यक्त्वप्राप्तिक्रियाविशिष्टो भवति जीवः तदैव सम्यग्दृष्टिव्यपदेशमासादयति, क्रियाकालस्य निष्ठाकालस्य चैकत्वाद्, अतः प्राप्तौ व्यवसम्यग्दृष्टिःसन्नेतदभिप्रायेण मतिज्ञानं प्रतिपद्यत इति । 'इदानीं दर्शनद्वार'मित्यादि (२०-१७), नन्वत्र चक्षुरचक्षुर्दर्शनिनः हारनिश्चयकिमिति विशेषतस्तल्लब्धिमन्तो व्याख्याताः, यावतैतद्दर्शनोपयोगेऽपि मतेः पूर्वप्रतिपन्ना लभ्यन्त एव ?, सत्यमेतत्, किन्तु विचारः लब्धिमत्पक्षे पूर्वप्रतिपन्नाः प्रतिपद्यमानकाश्चोभयेऽपि लभ्यन्ते, उपयोगपक्षे तुपूर्वप्रतिपन्ना एव प्राप्यन्ते नेतरे इति तद्व्युदासेन विशेषतो लब्धिमद्रहणं, यद्येवमुपयोगपक्षे पूर्वप्रतिपन्ना लभ्यन्त इति पक्षान्तरं वृत्तिकृता किमिति न दर्शितम् ? इति चेत्सत्यं, सुगमत्वादिति पश्यामः, स्वयमेव वाऽभ्यूह्यमिति, भवत्वेवं, तथाऽप्यवधिदर्शनिनां यः प्रतिपद्यमानकनिषेधः सोऽसमीक्षिताभिधानादिव लक्ष्यते, तथाहि-यदा विभङ्गज्ञानी देवनारकादिः कश्चित् सम्यक्त्वं प्रतिपद्यते तदाऽवधिदर्शन्येवासौ मतेः प्रतिपत्ता लभ्यते, न च वक्तव्यं विभनिनोऽवधिदर्शनं नास्ति, तस्यागमेऽनेकधा प्रतिपादनाद्, यदाह प्रज्ञप्तिः-"ओहिदसणअणगारोवउत्ता णं भंते ! किं नाणी अन्नाणी, गोयमा ! नाणीवि अन्नाणीवि, जे नाणी ते अत्थे|गइया तिनाणी अत्थेगइया चउनाणी, जे तिनाणी ते आभिणिबोहियनाणी सुअनाणी ओहिनाणी, जे चउनाणी ते आभि-IN [णिबोहियनाणी सुयनाणी ओहिनाणी मणपजवनाणी, जे अन्नाणी ते नियमा तिअन्नाणी, तंजहा–मतिअन्नाणी सुय-18 अन्नाणी विभंगअन्नाणी” तदेतदवधिदर्शनिनोऽप्यज्ञानत्रयमुक्तमिति कथं विभङ्गिनो नावधिदर्शनमिति, यदिवा विभ-16॥५॥ गज्ञान्यपि यदा सम्यक्त्वमतिश्रुतावधीन् प्रतिपद्यते तदा प्रतिपद्यमानं प्रतिपन्नमिति निश्चयनयमतेन प्रतिपत्तिक्षणेऽप्ययमव
Jain Education inimation
For Private & Personal Use Only
KUjainelibrary.org