________________
स्वपि दिक्ष्वपरवास्यद्रव्याणि वासयन् प्रसरत्येवेति द्वितीयसमये मन्थसिद्धिः, केवलिनस्तु जीवप्रदेशा द्वितीयसमये कपाटतयैव प्रसरन्ति, तेषामपरवास्यद्रव्याभावाद्भवोपग्राहिकर्मपरतन्त्रत्वाच्चेति, शेषं सुगम 'यावच्चरमान्तेऽसङ्ख्येयभागे'इत्या दि (१८-११), ननु च षट्स्थानलक्षणगणितमपेक्ष्य चरमान्तोऽनन्तभागोऽपि सम्भवति तत्किमित्यसङ्ग्येयभागे इत्युक्तमित्याशङ्कयाह क्षेत्रगणितमपेक्ष्ये'ति, इदमुक्तं भवति-लोकक्षेत्रस्यासङ्खयेयप्रदेशात्मकत्वादनन्तशब्दविरहितं चतुःस्थान8 कलक्षणमेव गणितं सम्भवति, तत्र तु चरमोऽसङ्ख्येयभाग एव नानन्तभाग इति युक्तमुक्तं चरमान्ते
ऽसङ्ख्येयभागे इति । तत्राद्येष्वनन्तानुबन्धिषु क्रोधादिषूभयाभाव इति' (२०-२), नन्वनन्तानुबन्धिषूदयप्राप्तेषु सास्वादनः पूर्वप्रतिपन्नो मतिज्ञानस्य सम्भवति तत्कथमुभयाभाव उक्तः ?, सत्यं, सम्भवति किन्त्वल्पत्वात्तत्कालस्याविवक्षेति लक्ष्यते, तत्त्वं तु बहुश्रुता विदन्तीति । व्यवहारनयमतेन सम्यग्दर्शनमतिश्रुतानां प्रतिपद्यमानको मिथ्यादृष्टिरेव भवति न पुनः सम्यग्दृष्टिः सन् मतिश्रुते प्रतिपद्यते, कुतः ? इत्याह-'सम्यग्दर्शनमतिश्रुतानां युगपल्लाभादिति (२०-७), यदि हि प्राप्ते सति सम्यक्त्वे ततो मतिश्रुते प्रतिपद्येत तदा स्यात्सम्यग्दृष्टिर्मतिज्ञानस्य प्रतिपद्यमानकः, न चैतदस्ति, सम्यक्त्वेन सहैव तल्लाभात् , अथ सम्यक्त्वेन सह लब्धे अपि मतिश्रुते सम्यग्दृष्टिः पुनरपि प्रतिपद्यते ? इत्याशङ्कयाह-'आभिनिबोधिकप्रतिपत्त्यनवस्थाप्रसङ्गाचे'ति (२०-७), यदि ह्येकदा प्रतिपन्नमपि पुनरपि प्रतिपद्यते तदा तत्प्रतिपत्त्यनुपरमप्रसङ्ग इति भावः । 'निश्चयनयस्त्वि'त्यादि (२०-७), नन्वा|भिनिबोधिकलाभस्य सम्यग्दर्शनसहायत्वादिति व्यवहारनयेनाप्युक्तं तत्कोऽस्य व्यवहाराद्विशेषो येनास्य सम्यग्दृष्टिर्मतिज्ञा
ESEARCCARRIORRECAR
JanEducation
For Private & Personal Use Only