________________
तदा को विधिरिति ? उच्यते-यावत्पनको नाद्यापिपरिणमति तावत् तत्सहितोपकरणं न परिभुज्यत एव, अथ मार्गे चलिता वर्त्तन्ते तदा सर्वमपि तदुपकरणं त्यज्यते, अथान्यलाभाद्यभावान्न तेनोपकरणेन परित्यक्तेन निर्बहन्ति तदा 'उण्हं सीयं नाऊण विगिंचणं' (६२२-१३)ति, एतदुक्तं भवति-यदि सोष्मप्रदेशव्यवस्थिते दण्डकाद्युपकरणे स पनकः सम्मूछितः स्यात् तदाऽयमुष्णप्रकृतिरिति ज्ञात्वा तस्मिन्नेवोष्णप्रदेशे परित्यज्यते, अथ शीतलप्रदेशोपकरणसम्मूर्छितत्वाच्छीतप्रकृतिरिति ज्ञायते तदा शीतलप्रदेश एव परित्यज्यत इति, ननु वनस्पतिपारिस्थापनिकाप्रस्ताव कोऽयमवनस्पतिरूपपनकस्य धवखदिरपलाशादिवनस्पतिभ्योऽत्यन्तविलक्षणस्य विचार इत्येवं मुग्धप्रेरकेणोक्ते सत्याह-'एसवि वणस्सइकाउ'त्ति (६२२-१३ ), एषोऽपि पनको वनस्पतिविशेष एवेति युक्तस्तद्विचार इति, कथम्भूतः पुनरसावित्याह-पच्छाअंतोत्ति पाश्चात्यः-सर्वसूक्ष्मोऽसावित्यर्थो, व्यवहारचारिवनस्पतीनां मध्ये नातः परं सूक्ष्मो वनस्पतिरस्तीतिभावः, सर्व चेदमक्षरगमनिकामात्र, तत्त्वं केवलिनो विशिष्टश्रुतविदो वा विदन्तीति, तेषां च अल्लकपीलुकादीनां "पढम परपाए सपाए" इत्यादिना सामान्येनोक्तेऽपि परित्यागविधौ पुनर्विशेष विवक्षुः प्रश्नं कारयति-'का तेसिं विगिंचणविहित्ति ( ६२२-१३ ), उत्तरमाह-'अल्लगं अल्लगखेत्ते' इत्यादि, यदि दायको न स्वीकुरुते तदा अल्लकं यत्र क्षेत्रे समुत्पद्यते तत्रैव परिष्ठाप्यते शेषाण्यपि पीलुकादीनि आकरे-स्वोत्पत्तिस्थाने परित्याज्यानि, आकराणामभावे किं विधेयमित्याह-निवाघाए महुराए भूमीए अंतो वत्ति ( ६२२-१४) अत्र वाशब्दोऽनन्तरवक्ष्यमाणपक्षान्तरापेक्षया समुच्चये, निर्व्याघाते-तिर्यगाद्यापातरहिते प्रदेशे सार्द्रमधुरभूम्यन्तः शृङ्गाबेरादीनि परिष्ठाप्यन्ते मधुरकपरे वा मधुरवृक्षपात्रे वा निधाय मधुरवननिगुञ्जादौ परि
Jain Educatio
n
al
For Private & Personal Use Only
Tww.jainelibrary.org