________________
मपि गमनिकामात्रमुच्यते-तत्र एवं लोकपि जाणतो'इत्यादि (६२०-१), एतदुक्तं भवति-इह पृथ्वीकायस्यात्मसमुत्थं परसमुत्थं च ग्रहणं पुनः प्रत्येकं द्विधा-आभोगतः अनाभोगतश्चेत्युक्तं, तत्र-आत्मसमुत्थं आभोगतो मृत्तिकाया ग्रह-113 णमुक्तं, लवणस्याप्यतिदेशमाह-एवं लवणमपि जानानो गृह्णाति, मृत्तिकावल्लवणमपि ग्लानादिकारणत आभोगेन | गृह्णातीत्यर्थः, अनाभोगत आत्मसमुत्थं पृथ्वीकायस्य ग्रहणं कथमितिचेद् ? इत्याह-'अणाभोएण तेण लोणं म-IN गित'मित्यादि ( ६२०-१), तेन साधुना क्वचित्प्रयोजने लवणं याचितं तत्त्वनाभोगतो मिश्रं सचित्तं वा गृहीत्वा 5 आगतो ज्ञाते सति यत एव स्थाल्यादेर्भाजनाद् दाच्या समुद्धृत्त्य तद्दत्तं तत्रैव क्षेप्तव्यं, अथ सा दात्री तत्र भाजने प्रक्षेप्तुं न ददाति तदा ताहे पुच्छिज्जइ-कओ तुब्भेहिं आणीयमित्याद्युत्तरवक्ष्यमाणविधिना परिस्थाप्यं, खण्डभ्रान्तिगृहीतलवणे परसमुत्थसचित्तपृथ्वीगृहणेऽपि चैवमेव द्रष्टव्यमिति । सूत्रगाथानामपि वृत्तिकृता भावार्थमात्रमेव कथितं | न प्रत्यक्षरं व्याख्यातं अतस्तासामपि यथावैषम्यं किञ्चिद्व्याख्यायते-'अजिअं तु जाइउं लेज्जेत्यादि कदाचिदजीवमिति |बुध्या याचित्वा अनाभोगतो मिश्रं सचित्तं वा किञ्चिल्लवणादि गृह्णीयादिति, शेषगाथा सुगमा व्याख्यानुसारतस्तु भावनीया इति पृथ्वीकायवक्तव्यता समाप्ता ॥ इदानीमप्कायविधिरुच्यते-'विसकुंभो'त्ति (६२०-८), वातादिविकारजनितो महास्फोटक उच्यते । 'कुङ्कणेसु पाणिय'मित्यादि (६२०-११), कुङ्कणदेशे एकस्यां वेदिकायां-काष्ठमयमञ्चिकायां जलमाचाम्लं च तिष्ठतस्तत्स्वामिन्या च याचितया साधुरुक्तः-इतः स्वयमेव गृहाण, तेन चाचाम्लभ्रान्त्या जलं गृहीतं, तच्च ज्ञाते सति यदि तत्स्वामिनी समनुजानीते तदा यतः स्थानात् गृहीतं तत्रैव प्रक्षिप्यते अन्यथाऽऽकरे-तडागादौ वक्ष्य-5
Jain Education
Monal
For Private & Personal Use Only
jainelibrary.org