________________
आव० हारि० टीप्पणं
॥९४॥
वा राज्ञा हेतुभूतेनोदकं यत्रादिभिः कूपादेराकृष्य निसृजति, एवमजीवादजीवेन वा धनुरादिना शिलीमुखादि निसृजति । क्रिया: यस्यां सा अजीवनसृष्टिकी, अथवा जीवे-गुर्बादौ जीवं-स्वशिष्यं पुत्रं वा अविधिना निसृजति-ददाति यस्यां सा जीव- समितयः नैसृष्टिकी, अजीवे-अचित्तस्थण्डिलादौ अनाभोगादिनाऽनेषणीयं स्वीकृतमजीवं वस्त्रं पात्रं वा सूत्रव्यपेतं यथा भवत्यप्रमार्जिताद्यविधिना निसृजति-परित्यजति यस्यां सा अजीवनसृष्टिकी, एतदेव व्युत्पत्त्यन्तरं चेतसि व्यवस्थाप्याह-'अहवा नेसत्थिया जीवे जीव'मित्यादि व्याख्यातमेवेति । तत्र काम्यन्त इति कामा:-शब्दादयस्त एव वखरूपे'त्यादि (६१५-१५),तेषां शब्दादिकामानां स्वकीयं यत्स्वरूपं तदेव गुण इव गुणो-दवरकस्तेन यःप्राणिनांबन्धः-सङ्गस्तद्धेतुत्वाद् गुणाः शब्दादयः उच्यन्ते प्राणिनां बन्धहेतुत्वेनरजव इतियावत् । एषणासमित्युदाहरणे तस्स य धारणिभजागाहा (६१६-१४), सुगमा, नवरं पाण्मासिके गर्भ धिग्जातीयो गौतमो मृतो धिग्जातिका ब्राह्मणी जाते नन्दिषेणे मृतेति शेषः । मंदभग्गफुक्कियत्ति ( ६१७-६), चितायां प्रक्षिप्य फूमितस्त्वमिति देशीभाषया आक्रोशः । 'सामाइये निसिद्धो मा पिय'त्ति ( ६१८-९) एतदुक्तं भवति-सामायिके समभावेऽङ्गीकृते सत्यात्मनोऽपि पीडा निषिद्धा सिद्धान्ते, अतो यथा त्वमस्य साधोः पीडां रक्षसि तथाऽऽत्मनोऽप्यसौ रक्षणीयैव, तदुक्तम्-भावियजिणवयणाणं ममत्तरहियाण नत्थि हु विसेसो । अप्पाणम्मि परम्मि अ तो वजे पीडमुभओवि ॥१॥ तस्मात् प्रश्रवणमिदं मा पिबेति तं निवार्यावृत्तः-तुष्टो देवदू
||९४॥ इति । इदानी परिस्थापनिका प्रारभ्यते-अत्र च वृत्तिकृता प्रभूता चूणिलिखिता तद्भावार्थस्तु विशिष्टश्रुतधरगम्यत्वात् तथाविधाम्नायाभावाच नास्मादृशां गम्यस्तथापि यथोपलब्धार्थस्याऽऽत्मस्मृत्यर्थ विषमतरपदानां कियता
NAGAR
Jain Education
For Private & Personal Use Only
R
Mw.jainelibrary.org