________________
आव० हारि० टीप्पणं
एवैकेन्द्रियेभ्यश्चेत्यादि (५३३-५), एतदुक्तं भवति-तेभ्य एव नारकेभ्यो ज्ञानदर्शनान्वितेभ्यः तथैकेन्द्रियेभ्यश्च कृतिकर्मज्ञानदर्शनविकलेभ्य उद्वृत्ता जीवा मनुष्यभवमप्राप्य तावन्न सिद्ध्यन्ति न च मनुष्योऽपि चारित्रविकलः सिध्यति अतो विचारः ज्ञायते चारित्रमन्तरेणासहायज्ञानदर्शनयोरकिञ्चित्करत्वमिति । 'उज्जममाणस्स गुणा'इत्यादि (५३४-१) गाथाया है भावार्थ उच्यते-इह प्रष्टुरयमभिप्रायः-साधुस्तावत्स्वशक्त्यपेक्षं तपः करोति कश्चिन्नमस्कारसहितं कश्चित्तु प्रथमपौरुषीमपरस्तु पुरिमार्द्धमित्यादि यावत्ताण्मासिकं, तथा श्रुतमपि कश्चिदष्टप्रवचनमातृप्रमाणमधीतेऽपरस्तु बहु अन्यस्तु बहुतरं यावचतुर्दशपूर्वाणि, तदेवं यथा श्रुततपसोः स्वशक्त्यपेक्षं वर्तते तथा संयमेऽपि यावन्तं पृथिव्याधुपमई रक्षितुं शक्नोति तावन्त| मेव रक्षतु तथा मृषावादेऽपि यत्परिहर्तु क्षमते तदेव परिहरतु एवं शेषव्रतेष्वपि योज्यं, न चैतद् भवद्भिरभ्युपगम्यते, अणी| यस्यामपि संयमविराधनायां चारित्रमालिन्याभ्युपगमात्प्रायश्चित्तप्रदानाच, तपःश्रुतयोस्तु स्वशक्तिप्रवृत्तावपि चारित्रमालिन्यानभ्युपगमात्प्रायश्चित्ताप्रदानाच्च, तदेतत्कथमिति ? आहाचार्यः-'अनिगूहिंतो विरिअंगाहा (५३४-६), अस्याव्ययं भावार्थ:-श्रुततपसोरपि तावच्छक्तिर्न निगूहनीया, ततश्च संयमेऽपि शक्तिं चेन्न निगृहयति तदा न विराधकः साधुः, न ह्यागमे ग्लानाद्यवस्थासु यतनया कुर्वतोऽशठचित्तस्य किञ्चित्सावद्यापि क्रिया नानुज्ञाता भगवद्भिरिति । 'विगति विगईभीओ'गाहा (५३७-२१), व्याख्या-विगतेभीतो विगतिभीतः साधुर्यो विकृति-क्षीरादिकां भुत इति योगः, चश
ब्दस्यानुक्तस्यापि दर्शनात् विकृतिगतं च-क्षीरान्नादिकं यो भुते स दुर्गतिं यातीति वाक्यशेषः, कस्मादित्याह-विकृति६ बलाजीवमनिच्छन्तमपि विगति-नरकादिकां नयतीति, एतदपि कुत इत्याह-विकृतिर्यतो विकृतिस्वभावा, विकारजनन
X
For Privale & Personal Use Only
Jain Education
iainelibrary.org
anal