SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ अज्ञा इत्याद्युक्त्वा मोचिताः, तथा च भाष्यम्-"पेसविया पच्चंते गीयासइ खेत्तपेहग अगीआ। पेहियखेत्ता पेच्छंति वायगं कत्थ रन्नेत्ति ॥१॥ ओसकते दहूं संकच्छेती उ वायगो कुविओ । पल्लिवइकहणरंभणगुरुआगमवंदणं सेहा ॥२॥" नन्वेवं पार्श्वस्थादीन् वन्दमानस्य तद्दोषानुज्ञातः संयमव्ययादयो दोषाः प्रसजन्ति, सत्यं, किन्तु संयमव्ययात् तदायो यथा गरीयान् भवति तथा यतितव्यमेव, तथा च भाष्यम्-"कुणइ वयं धणहेडं धणस्स वणिओ उ आगमं नाउं । इय संजमस्सवि वओ तस्सेवट्ठा न दोसाय ॥१॥ गच्छस्स रक्खणट्ठा अणागयं आउवायकुसलेणं । एवं गणाहिवइणा सुहसीलगवेसणा कुज्जा ॥२॥" तद्यथा-'वायाए नमोक्कारो'इत्यादि, किंबहुना ?-"वायाए कम्मुणा वा तह चिट्ठइ जह न होइ से मंतुं। पस्सइ जओ अवायं तयभावे दूरओ वजे ॥१॥” इति तावद् गुणवर्जितानां वायाए नमोक्कारादिकमुक्तं, यत्र तु गुणः स्वल्पोऽप्यस्ति तत्र किमित्यत्रापि भाष्यम्-“दंसणनाणचरित्तं तवविणयं जत्थ जत्तियं जाणे। जिणपन्नत्तं भत्तीइ पूयए तं तहिं भावं ॥१॥" किमत्र बहुविस्तरेण सकलप्रवचनस्य सारमुच्यते-“ण य किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । एसा खु तेसि आणा कज्जे सजेण होयचं ॥१॥ बहुवित्थरमुस्सग्गं बहुयरमववायवित्थरं नाउं। जह जह संजमवुड्डी तह जयसु निजरा जय ॥२॥" इत्यलं विस्तरेण, तदर्थिना तु निशीथत्रयोदशोद्देशकः कल्पश्च निरीक्षणीयः । 'भाण्डखादिकारसादिग्रह'इति (५२२-७), भाण्डखादिकारसो नाम जलविशेषः तत्र किल प्रक्षिप्तं सर्वमपि लोहादि जलरूपतामेतीति । "प्रणमतस्तत्किमिती'त्यादि (५२२-११), यदि नाम पार्श्वस्थादिषु ध्रुवा सावधक्रिया तथापि तत्प्रणामकर्तुः को दोष ? इति आह-'समणुमन्न'त्ति (५२५-१२), पार्श्वस्थादीनां प्रणामं कुर्वतस्तत्सावधक्रियानुमोदनं भवतीतिभावः । 'तेभ्य आ.१५ Jain Educati o nal For Privale & Personal use only Miw.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy