SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Jain Educatio स्वभावेति गाथार्थः । ' एगग्गया य झाणे' गाहा ( ५४० - ८ ), व्याख्या - सूत्रवाचनादानपरिहारेणार्थमेव व्याख्यानयत आचार्यस्यैकाग्रता ध्याने- अर्थचिन्तनलक्षणा भवति, यदि पुनः सूत्रमपि वाचयेत् तदा बहुव्यग्रत्वादर्थचिन्तायामेकाग्रता न स्याद्, एकाग्रतया को गुण इत्याह- 'बुडि 'त्ति एकाग्रस्य हि चिन्तयतः सूत्रार्थो वृद्धिमुपयातीति भावः, तीर्थकरानुकृतिश्च भवति, तीर्थकरा हि किलार्थमेव कथयन्ति न सूत्रं अतस्तदनुकारश्च कृतो भवति, सूत्रवाचनां च प्रयच्छत आचार्यस्य | लाघवमपि स्यात् तद्वाचनायास्ततोऽधःपदवर्त्तमानैः उपाध्यायादिभिरपि साध्यत्वाद्, अतोऽर्थमेव कथयतः सूरेर्गुरुता- गरिमा भवति, आज्ञायां च स्थैर्य्य, आज्ञा च तीर्थकृतां पालिता भवतीत्यर्थः, तीर्थकरैरित्थमेव निर्दिष्टत्वादिति भावः । ' इति गुरु करिणमोकखो न वाइ' त्ति (५४०-९), इति - अस्मादुक्तस्वरूपात्कारणकलापाद्गुरुर्न वाचयति सूत्रं, कथम्भूतो ? - यतः कृतऋणमोक्षः, तेन हि सामान्यावस्थायामनेके साधवः सूत्रमध्यापिता एव, अतः प्रागपि कृतसूत्रलक्षणऋणमोक्षत्वेन कृतकृत्यत्वात् पूर्वोक्तकारणकलापाच्च गुरुः सूत्रं न वाचयतीति गाथार्थः । उपाध्यायस्य सूत्रवाचनाप्रदाने को गुणः स्यादित्याह - 'सुत्तस्थेसु थिरत्तं' गाहा ( ५४० - ११ ), व्याख्या - उपाध्यायः शिष्येभ्यः सूत्रवाचनां प्रयच्छन् स्वयमर्थमपि परिभाव यति अतः सूत्रेऽर्थे च स्थिरत्वं भवति, अन्यस्य वाचनादानेन च सूत्रलक्षणऋणमोक्षो भवति, आयत्यां- आगामिनि काले अप्रतिबन्धः - सूत्रसन्तत्यविच्छेदलक्षणो भवति, 'पाडिच्छ' त्ति येऽन्यत आगत्य साधवः सूत्रोपसम्पदं गृह्णन्ति ते प्रती च्छका उच्यन्ते ते च सूत्रवाचनाप्रदानेनानुगृहीता भवन्तीति वाक्यशेषः, मोहजयश्च -सूत्रवाचनादानव्यग्रस्य हि चित्तविश्रोतसिका न भवतीत्यर्थः, एतैः कारणैः सूत्रं वाचयत्युपाध्याय इति गाथार्थः । शेषा गाथाः सुगमाः, नवरं - ' उद्धावणा tional For Private & Personal Use Only * www.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy