________________
आव० हारि० टीप्पणं
॥७६॥
645X49XXXXXX
नायां समं तुलाद्रव्य'मिति, भूतः-सद्भूतः तौल्ये कियत्प्रमाणोऽयमर्थ इत्यालोचनायां-तत्तौल्यप्रमाणजिज्ञासायां सत्यां सामायिका यथावस्थितप्रतिपादकत्वेन समं तुलाद्रव्यमेवेत्यर्थः । 'कण्ठतस्तावदुक्ते चालनाप्रत्यवस्थाने'इत्यादि (४७६-१५),||धिकारः ननु च "को कारओ करितो" इत्यादौ परस्य कादिस्वरूपं प्रश्नयतः सूरेरपि तत्कथयत उभयोरपि पुनरुक्तता, 'आया खलु सामइय'मित्यादिना तत्स्वरूपस्यानेकस्थानेषु पूर्वमेव निरूपितत्वाद् इत्याशङ्याह-'अत एव चात्र पुनरुक्ते'त्यादि, यत एव चालनाप्रत्यवस्थाने एते न स्वरूपकथनं अत एव न पुनरुक्तता, कुत इत्याह-अनुवादवारेणे'त्यादि, एतदुक्तं |भवति-यत्किमपि कादिस्वरूपं सूरिरभिधास्यते तदहं निराकरिष्यामीति चालनाचिकीर्षया परस्य प्रश्नो यद्यसौ तत्स्व| रूपं मयोक्तं निराकरिष्यति तदहं स्थापयिष्यामीत्यभिप्रायवतश्च सूरेनिर्वचनं न तु मुख्यतया तत्स्वरूपप्रतिपत्त्यर्थमि* त्यदोषः। 'विवक्षितं घृत'मिति (४७७-६), प्रतिनियतैकभाजनादिस्थितं न पुनः समस्तजगद्गतमिति भावः। 'अत्र |च (तु)क्षायोपशमिकभावसर्वेणाधिकार'इति (४७८-३), सर्वशब्दोऽन्तर्जल्पाकारः किल श्रुतज्ञानरूपः श्रुतं च क्षायोपशमिके भावे वर्तते अतो युज्यते क्षायोपशमिकभावसर्वेणाधिकार इति । 'दानपुण्यफला कीर्तिरिति (४८०-१६), दानपुण्याभ्यां फलति २ कस्यचिदानसमुत्था अपरस्य तु तथाविधं दानमप्रयच्छतोऽपि पूर्वभवोपात्तपु
॥७६॥ ण्यवशात्कीर्तिः प्रादुरस्तीति भावः । 'अन्यमपीत्यतिरिच्यत इति (४८१-२), करंतंपि अन्नं न समणुजाणामीत्यत्रापिशब्दोऽन्यशब्दश्चातिरिच्यत इत्यर्थः, तत्रापिशब्दस्य फलमाह-'यस्मात् सम्भावनेऽपिशब्दोऽयमित्यादि(४८१-३)।
46495
Jan Educatiorialpnal
For Private & Personal Use Only
wininelibrary.org