________________
Jain Education
यन्ति अथ तथापि मार्गभयादि किञ्चित् तर्हि सूत्रपौरुषीमपि त्यजन्ति ततश्चरमकायोत्सर्ग द्वितीयमाद्यं वा तावद् याव त्तिष्ठत्यपि सवितरि कारणतो वसत्यन्तरं गत्वा गुरुस्थापनादिक्रमेणान्यत्रापि स्थिताः प्रतिक्रमणादिषु यतन्ते यतोऽत्रापि भदन्त इत्यामन्त्रणं कुर्वते इति दर्शितं भवति, किं तद् इत्याह- आवश्यकं प्रतिक्रमणादिलक्षणं नित्यमेव गुरुचरणमूले कर्त्तव्यमिति, कस्यैतद्दर्शितं भवतीत्याह - 'वीसुंपि हु संवसतो कारणतो 'त्ति ( ४७३ - १४ ), एकप्रतिश्रयनिवासिना तावदुर्वन्तिक एवावश्यकं कार्य योऽपि कारणतो वसन्तिसङ्कीर्णतादेर्विश्वक् पृथग् वसति तस्याप्यनन्तरदर्शितकल्पोक्तनीत्या गुरुचरणान्तिक एवावश्यकं कर्त्तव्यतया दर्शितं भवति, ननु यः श्वापदभयात्कारणतो गुर्वन्तिकाद्रात्रौ गन्तुं न शक्नोति स किं करोतीत्याह - 'जयति सेज्जाए'ति, कारणत इतीहापि सम्बध्यते, ततश्च यद्यपि श्वापदभयादिकारणतो गुर्धन्तिकं गन्तुं न शक्नोति तथाप्यन्यस्यामपि शय्यायां परिवसन् गुरुस्थापनादिक्रमेणैव यतते - यतनां करोतीति गाथार्थः ॥ 'सम्पू| शब्दावयवमेवाधिकृत्याहे त्यादि ( ४७४ - १ ), इह 'सामं समं चे'त्यादि खण्डीकृतशब्दापेक्षया सामायिकमित्यखण्डः - सम्पूर्णः शब्द उच्यते, 'करणे भए य अंते सामाइय सबए य वज्जे येत्यादिगाथैकदेशत्वादवयवः, ततश्च सम्पू
शब्दश्चासाववयवश्च सम्पूर्णशब्दावयवस्तमधिकृत्य सामं समं सम्यक् इकं इत्येते चत्वारोऽपि शब्दा एकार्थाः, एकार्थत्वं | चेह न पर्यायशब्दत्वममीषां मन्तव्यं किन्त्वेकस्यैव सामायिकशब्दलक्षणस्यार्थस्य निष्पत्तये सामादयश्चत्वारोऽपि शब्दा व्याप्रियन्त इत्येकार्था उच्यन्त इति । 'ओघतो मधुरपरिणाम' मित्यादि ( ४७४ - ५ ), ओघतः - सामान्येन तावन्मधुरपरिणामं - शर्करादिद्रव्यं, विशेषतस्तु कस्यचित् स्वसात्म्यादिकारणात्कटुकमपि मधुरमिवाभातीति भावः । 'भूतार्थालोच
For Private & Personal Use Only
www.jainelibrary.org