________________
आव०
हारि०
भदन्तशब्दार्थः
टीप्पणं
॥७५॥
योत्सर्गवो नन्द्याकर्षणादिक उद्देशविधिरेव वक्तव्यो, नवरं प्रवेदिते गुरुराह-सम्मं धारय अन्नेसिं च पवेयसुत्ति, एवमसौ कालिकश्रुतेऽभिव्याहारः, उत्कालिकदृष्टिवादेऽपीत्थमेवाभिव्याहारः, केवलं शिष्येण अमुगं सुयं उद्दिसह इत्युक्ते गुरुस्तत्रेत्थमाह-इदमुद्दिस्सामीत्यादि । 'करणेयत्ती'त्यादि (४७२-१८), न केवलं करणेयत्तीत्युपन्यस्तद्वारपरामर्शः किन्तु भयेयत्तीत्ययमपीति योजना, अयमत्र भावार्थो-यदिदमनन्तरोदितं सामायिककरणं तद्भावकरणं, व पुनर्भावकरणं 8 शास्त्रकारेण पूर्वमुद्दिष्टं येनेदमिह योज्यते इत्याह-“करणे य भए य"त्ति, इदं हि प्रागुपन्यस्तद्वारगाथाद्यद्वारद्वयं, अनेन च सकलापि सा गाथा सूचिता भवति, तद्यथा-'करणे भए य अन्ते सामाइअ सबए अ वजे य' इत्यादि अस्यां गाथायां यद्भावकरणमुक्तं शास्त्रकृता तदिदमनन्तरोदितं सामायिकरणमित्यर्थः । 'भदि कल्याणे सुखे चेत्यादि (४७२-२२), ननु भदन्त इत्यखण्डे शब्दे सति कुतोऽयं प्रकृतिविभागो लभ्यते इत्याह-'विशि'इत्यादि (उ०४१३), एतदुक्तं भवति-जृविशीतिधातुद्वयस्योणादौ तावदन्तप्रत्ययो दृश्यते, उणादयश्च बहुलं भवन्तीत्यत्रापि झच्प्रत्ययो लभ्यते, तस्मिंश्च सति सामर्थ्यात् भदिरूपैव प्रकृतिरभ्युह्यते । 'पश्चानुपूर्ध्या ग्रन्थ'इति ( ४७३-९), होइ भयंतो इत्यादौ किलैवमुपन्यासो भवति भदन्तो भवान्तो भयान्तश्चेति, अधिकारोपन्यासस्तु विपर्ययेण कृत इति पश्चानुपूर्वी कृता । 'आवस्सयंपि निचं' गाहा ( ४७३-१३), व्याख्या-अत्र किल कल्पग्रन्थनिबद्धेयं सामाचारी-यदि लघ्वी वसतिर्भवति तदा
केचित्साधवः स्थानान्तरेऽपि परिवसन्ति, किन्तु गुरोरन्तिके समागत्य प्रतिक्रमणं कृत्वा प्रादोषिककालग्रहणानन्तरं कालं है सूत्रार्थपौरुषीद्वयं च विधाय ततः स्थानान्तरे गत्वा निद्रामोक्षं विदधति, अथ मार्गे श्वापदादिभयं तदाऽर्थपीरुषी हाप
RECERCANNOTAcc
॥७५॥
Jain Education
For Private & Personal Use Only