________________
आव० हारि० टीप्पणं
॥६९॥
भवति-यथा वक्रगतौ परभवशरीराभावेऽपि परभवत्वेन व्यपदेशः तथेहभवशरीराभावेऽपि च्युतिसमये इहभवत्वेन व्यप- करणवदेशोऽभ्युपगन्तव्य एव, न्यायस्य समानत्वादिति गाथार्थः । आचार्य आह-नन्वेतद् ब्रुवता त्वया अस्मत्साहाय्यमेवानु
कव्यता |ष्ठितं स्याद्, यतो यथा विग्रहकाले पारभविकशरीराभावेऽपि परभवव्यपदेशः तथा च्युतिसमयेऽपीहभवशरीरत्यागे सति | परभवशरीराभावस्य तुल्यत्वाद्विग्रहकालवदेव परभवव्यपदेशः किं नाभ्युपगम्यत इति ?, एतदेवाह-'जं चिय विग्गहकाले'इत्यादि (४५९-२०) यत एव कारणाद्विग्रहकाले देहाभावेऽपि-परभवशरीराप्राप्तावपि [ततः] परभवोऽसौ भवतोऽपि सम्मतः तत एव तर्हि च्युतिसमयेऽपीहभवसम्बन्धी परभवसम्बन्धी वा नास्ति देहोऽतो देहाभावस्य तुल्यत्वाद्विग्रहकाल|वत् च्युतिसमयेऽपि कस्मात् परभवव्यपदेशो नाभ्युपेयते, 'न विग्गहो जइत्ति यदि पुनरेवं ब्रूयात्परो यदुत-असौ च्युतिसमयो न विग्रहः परभवव्यपदेशस्तु विग्रहकाल एव मयाऽभ्युपगम्यते, तत्रोच्यते-'स को होउत्ति यदि च्युतिसमयो विग्रहो न भवतीति नास्य परभवत्वं प्रतिपद्यते हन्त तर्हि संसारी जीवस्तदा को भवतु ?, इहभववपुषस्त्यक्तत्वात्प
रभवस्य च त्वयाऽप्यनभ्युपगम्यमानत्वात् तथैव-निर्व्यपदेश्य एव स्यादिति गाथार्थः । जघन्यसंघातान्तरभावनामाहसासंघायंतरकालो' गाहा 'तेहणं' गाहा (४६०-७), व्याख्या-एकदा संघातं कृत्वा पुनः शरीरान्तरे सङ्घातं ।
कुर्वतो योऽसौ जघन्योऽन्तरकालः स त्रिसमयहीनः क्षुल्लकभवमानोऽवसेयः, स च कदा लभ्यत इत्याह-परभवमविग्रहेण गत्वा प्रथमसमये संघातयतः-सर्बसंघातं कुर्वतो जीवस्य लभ्यत इति द्वितीयगाथायां सम्बन्धः, किं कृत्वा यत् परभवग- ॥६९॥ मनमित्याह-क्षुल्लकभवग्रहणलक्षणमायुर्विधृत्य, कथम्भूतं ?-न्यूनं, कैः ?-तैत्रिभिः समयैरिति गम्यते, ये किमित्याह
Join Education
For Private & Personal Use Only
Movw.sainelibrary.org