________________
Jain Education
| यदि परभवप्रथमसमये प्राक्तनशरीरपुद्गलानां सर्वपरिशाटोऽभ्युपगम्यते हन्त तर्हि यदा कश्चिज्जीवो निर्विग्रहतो - विग्रह - मकृत्वा ऋजुश्रेण्यैवोत्पद्यते तदा तस्मिन्नेव समये अग्रेतनशरीरपुद्गलानां सर्वसङ्घातोऽप्यभ्युपगन्तव्य एव भवत्वेवं को दोष इति चेद् अत्राह - ननु सर्वपरिशाटः सर्वसंघातश्चेत्येतद्वयं समय इत्येकस्मिन्नेव समयेऽभ्युपगम्यमानं विरुध्यते, युगपदायुर्द्वयानुभवप्रसङ्गात्, नचैतत्सिद्धान्तेऽभ्युपगम्यत इति गाथार्थः । अत्राचार्यो निश्चयनयमतेनैवोत्तरमाह - 'जम्हा | विगच्छ माण' मित्यादि ( ४५९ - १७ ), यस्माद् विगच्छद्विगतं उत्पद्यमानं चोत्पन्नं तस्मात् परभवाद्यसमये सर्वमोक्षसदानयोर्न कश्चिद्विरोधः, एतदुक्तं भवति - निश्चनयमते प्राग्भवायुःपुद्गला अपनीयमाना अपगता एव द्रष्टव्याः, तत्कथमागामिभवायुः पुद्गलैरुत्पन्नैः सहैकस्मिन् समये तेषामनुभूयमानता समस्ति येन विरोधः स्यादिति गाथार्थः । आचार्य एवा| भ्युच्चयदूपणमाह- 'चुतिसमये 'त्यादि ( ४५९ - १८ ), व्याख्या - च्युतिसमये इहभवायुः पुद्गलसर्वपरिशाटसमये तावदिहभवो न भवत्ययं, कुतः ? - इहभवसम्बन्धिदेहविमोक्षात् सर्वपरित्यागेन परित्यक्तत्वाद्, यथाऽतीतजन्मनीहभवो नास्त्यत्रत्यदेहाभावात् तथा च्युतिसमयेऽप्यसौ न भवत्येव, इहभवदेहाभावस्याविशेषाद्, एवं च सति यदि तस्मिँश्चयुतिसमये परभवोऽपि भवता नाभ्युपगम्यते तदाऽसौ संसारी जीवः को भवतु ?, इहभवत्वस्य तावद्युतित एव निषेधात् परभवत्वस्य तु त्वयाऽप्यनभ्युपगम्यमानत्वात् निर्व्यपदेश्य एवासौ स्यादिति गाथार्थः ॥ अत्राह परः - 'णणु जह विग्गहकाले' इत्यादि ( ४५९ - १९), नन्विति आक्षेपे, ननु यथा विग्रहकाले- वक्रेण परभवगमनकाले पारभविकदेहाभावेऽपि परभवसम्बन्धी जीवो व्यपदिश्यते तथा तेनैव प्रकारेणेहभवसम्बन्धिनो देहस्याभावेऽपि भवेदिह भवोऽपि न कश्चिद्दोषः, एतदुक्तं
For Private & Personal Use Only
ww.jainelibrary.org