SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं ॥ ६८ ॥ Jain Education धिकेन गुण्यन्ते, यत एतावत्य आवलिका एकस्मिन् क्षुल्लकभवग्रहणे भवन्तीति वृद्धाः, “तथा चाहुः – “दो य सया छप्पन्ना आवलिआणं तु खुड्डुभवमाणं । जियरागदोसमोहेहिं जिणवरेहिं विणिद्दि ॥ १ ॥” ततश्चायं राशिर्भवति – २५७१३०), लब्धाश्चतुर्णवतिरावलिकाः सातिरेकाः, एतावताऽभ्यधिकानि सप्तदशक्षुल्लकभवग्रहणान्येकस्मिन्नानापानकाले भवन्ति । 'उकोसो समणो' इत्यादि ( ४५९ - १४ ) गाथाव्याख्या - उत्कृष्ट औदारिकस्य सङ्घातपरिशाटकालः पल्योपमत्रयलक्षणः समयेन हीनो य उक्त इति शेषः 'उक्कोसगं तु पलियत्तियं तु समऊण' मित्यनेन ग्रन्थेन, सकिमित्याह-स संघातनासमयेन हीनो मन्तव्यो, देवकुर्व्वादिषु भवान्तरादायातस्य यः प्रथमः संघातसमयस्तस्मिन्नपनीते शेषः समयोनपल्योपमत्रयलक्षणः कालोऽयमवाप्यत इत्यर्थः । ननु यथा पल्योपमत्रयात्सर्वसंघातसमयोऽपनीयते तथा चरमसमयभावी सर्वपरिशादसमयोऽप्यपनेय एव अतो द्विसमयहीनः कालोऽयं प्राप्नोतीति एतदेवाह परः - 'किह न दुसमये त्यादि (४५९ - १५ ), कथं केन प्रकारेण न द्विसमयहीनोऽसौ पल्योपमत्रयलक्षणः कालो भवति, क्व सति ? - सङ्घातसमयवत्परिशाटकसमयेऽपनीते सतीति गाथार्थः । अत्राचार्यो निश्चयमतमालम्ब्योत्तरमाह - 'भन्नती' त्यादि, भण्यते अत्र प्रत्युत्तरं, किं तद् इत्याह-भवस्य मनुष्यादिसम्बन्धिनो योऽसौ चरमसमयस्तस्मिन्नपि संघातपरिशाटौ समुदितावेव प्रवर्त्तेते, यस्तु केवलः परिशाटः स परभवसमय एव अतो न तेन हीनः कालः पल्योपमत्रयलक्षणः, निश्चयनयो हि निज्जर्यमाणं निजीर्णमिच्छत्यतो यस्मिन् | समये समस्तायुर्द्दलिकनिर्जीयमाणतालक्षणः सर्वपरिशाटः स परभवायुष एव प्रथमसमय इति न प्राक्तनायुषो मध्यादप| नेय इति गाथाभावार्थः । एवमभ्युपगमेऽन्यदोषं पश्यन् पुनरपि परः प्रेरयति - 'जइ परपढमे इत्यादि ( ४५९ - १६ ), For Private & Personal Use Only करणवक्तव्यता ॥ ६८ ॥ w.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy