SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ RECARROACCORRIAGRA त्वात् न ह्यौदारिकवत् तयोः सर्वथा परित्यक्तयोः पुनर्भवान्तरसंभवोऽस्ति येनाद्यपुद्गलग्रहणलक्षणं संघातकरणं स्यात् , सत्यमेतत्, किन्तु प्रवाहापेक्षया तयोरनादित्वं, इदं चोक्तं व्यक्त्यपेक्षया, तथा च सति यन्मनुष्यादिभवे समुत्पन्नमात्रस्त-| द्योग्यपुद्गलग्रहणं करोति तत् तद्भवापेक्षयाऽऽद्यं तैजसकार्मणयोः पुद्गलसंघातकरणमुच्यते, न तु पूर्वभवसम्बन्धिशरीरं सर्वथा परित्यज्योत्तरभवशरीरं गृह्णतो य एकसामयिकपुद्गलग्रहणलक्षणः सिद्धान्तपरिभाषितः संघातः स इह गृह्यते किन्त्वाद्यपुद्गलग्रहणमात्रं, तच्च विवक्षितभवापेक्षया तयोरपि विद्यत इत्यदोषः । 'अथवेदमन्याहक त्रिविधं करणमि'ति (४५८-२१), एतदुक्तं भवति-"जीवप्पओगकरणं दुविहं मूलप्पओगकरणं चे"त्यादिना तावदेकया भजया दर्शितं जीवप्रयोगकरणं, इदानीं तदेव प्रकारान्तरेण प्रदर्श्यत इति । 'इह च सर्वजघन्यमायुष्कं क्षुल्लकभवग्रहण'मित्यादि (४५९-७) अत्र यदानापानकालस्य सप्तदशभाग इत्यभिहितं तत् स्थूलन्यायमाश्रित्य, सूक्ष्मेक्षिकया तु किञ्चिन्यूनोऽसौ द्रष्टव्यो, यत एतस्यायमानयनोपायः-इह किलैकस्मिन् मुहूर्त पञ्चषष्टिसहस्राणि पञ्चशतानि षट्त्रिंशदधिकानि क्षुल्लकभवग्रहणानां भवन्तीति वृद्धसम्प्रदायः, तदुक्तं-"पन्नट्टिसहस्साइं पंचेव सया हवंति छत्तीसा । खुड्डागभवग्गहणा एगमुहुत्तमि एवइया ॥१॥" आनापानाश्चैकस्मिन्मुहूर्ते त्रीणि सहस्राणि सप्तशतानि त्रिसप्तत्यधिकानि भवन्ति, यदाहतिन्नि सहस्सा सत्त य सयाणि तेवत्तरिं च ऊसासा । एस मुहुत्तो भणिओ सबेहिँ अणंतनाणीहिं ॥१॥ ततश्चानेनानापानराशिनाऽनन्तरोपदर्शितक्षुल्लकभवग्रहणराशेर्भागोऽपहियते, तद्यथा-६५७३६ लब्धं १७ उद्धरितस्त्वयं राशिः ३३७३ अत्र च यदि कश्चित्सूक्ष्मेक्षिकतया ज्ञातुमिच्छति तदा त्रयोदशशतानि पञ्चनवत्यधिकानि पुनरपि शतद्वयेन षट्पञ्चाशद USAASTASSASSIC Jain Education anal For Private Personal Use Only MINojainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy