________________
.
आव० हारि० टीप्पणं
मात्रमेवोच्यते, अर्थानपेक्षककाररेफणकारस्वरूपवर्णत्रयनिष्पन्नवण्णावलीमात्रमेवाभिधीयत इत्यर्थः, यद्वा तदर्थविकले-कर
करणवणशब्दाभिधेयार्थविकले जीवादी करणमिति नाम क्रियते तन्नामकरणमुच्यते, एतस्माच्च द्विभेदादपि नामकरणात् संज्ञा
क्तव्यता करणं भिद्यत इति दर्शयति-द्रव्यं पुनर्यत्संज्ञाकरणशब्देनाभिधित्सता पेलुकरणादि रूतपूणिकाव (दिव ) लनकादीत्यर्थः, तद् द्रवणपरिणामं करणशब्दाभिधेयार्थरूपतया परिणतिस्वभावमित्यर्थः अतोन तद् द्रव्यं पेलुकरणादिकं तदर्थशून्यं-करणशब्दार्थशून्यं न वा शब्दोऽर्थानपेक्षवर्णावलीमात्रलक्षणः,एवं च नामकरणभेदद्वयादपि संज्ञाकरणस्य भेदो दर्शितो भवतीति | गाथार्थः,आह-ननु यदि तद्रव्यं पेलुकरणादि करणशब्दार्थशून्यं न भवति किन्तु सान्वर्थ तर्हि भावकरणमेव तत् किमिति द्रव्यकरणाधिकारे पठ्यत इत्येतदेवाह-'जइ न तयत्थविहीण'मित्यादिगाथा (४५७-२) व्याख्या-यदि तदर्थवि हीनं-करणशब्दार्थविहीनं न भवति द्रव्यं पाइल्लकादीतिशेषः'तो'त्ति ततः किं-कस्माद्धेतोः द्रव्यकरणं तत् न तु भावकर
णमिति , एवं च परेण साक्षेपं पृष्टे सत्याहाचार्यः-'जतोत्ति यद्-यस्मात्कारणात् तेन पाइलकादिना करणेन द्रव्यंदू कटादिकं क्रियते तस्मात्तद्रव्यकरणमुच्यते, एतदुक्तं भवति-द्रव्यस्य करणं द्रव्यकरणमित्येवं व्युत्पत्त्यर्थमाश्रित्य द्रव्यप्रा-15
धान्यविवक्षया तद्रव्यकरणमुक्तमिति, ननु द्रव्यं क्रियतेऽनेनेति द्रव्यकरणं तदस्तु, संज्ञाकरणं तु कया विवक्षयोच्यत इत्याह-संज्ञाकरणमिति च करणरूढित इति, एतदुक्तं भवति-तेषां हि पेलुकरणादीनां करणमिति संज्ञा क्वचिद्देशे रूढा,
पाला॥६७॥ अतस्तां रूढिमाश्रित्य संज्ञाविशिष्टं करणं संज्ञाकरणमित्युच्यत इति गाथार्थः ॥ 'पञ्चानामौदारिकादिशरीराणामाद्यं सङ्घातकरण'मित्यादि (४५८-११), ननु चात्र यदुक्तमाद्यं सङ्घातकरणमिति तत् तैजसकार्मणयोर्न घटते अनादि
URANUSURA
Jain Education
Marjainelibrary.org
For Privale & Personal Use Only
anal