SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ दन्यतरव्याख्याङ्गमुच्यते, अतः सैद्धान्तिकी मुद्रेयं, यदुत-सर्वैरपि व्याख्यातृभिः व्याख्याचतुष्टयमभिधानीयं, ततः सूत्रस्पर्शिकनियुक्तिर्व्याख्येया, यत्तु पुनरपि नियुक्ती क्वचित्पदार्थाद्यभिधानं तेन वृत्तिकारोक्तमेव स्पष्टीकरिष्यत इत्यदोषः । 'शलाकाशल्यकाङ्गरुहादीति (४५६-२४), तत्र शलाका-वंशादिसम्बन्धिनी शल्यकाङ्गरुह-सहिका (शिहिका) शूलमुच्यते । आह-'इदं नामकरणमेवे'त्यादि, नामकरणमेवेदं, किं तद् ? इत्याह-संज्ञाकरण'मिति (४५६-२५) यदिहोच्यते भवद्भिः, कथमित्याह-पर्यायमात्रतः-पर्यायमात्रमाश्रित्य, संज्ञाशब्दस्य नामपर्यायत्वात् , संज्ञाकरणमित्यनेन नामकरणमेवोक्तं भवतीत्यर्थः । 'संज्ञाकरणं त्वन्वर्थत' इति, क्रियतेऽनेनेति करणं, योऽयं करणशब्दस्य प्रतीय|मानोऽर्थस्तमाश्रित्य संज्ञाकरणमिह गृह्यते, कुत एतदित्याह-संज्ञायाः करणं संज्ञाकरणं, द्रव्यस्य संज्ञया निर्दिश्यमानत्वादिति, एतदुक्तं भवति-यदि संज्ञा चासौ करणं चेति कर्मधारयसमासाश्रयणात्संज्ञामात्रस्यैवाभिधानं स्यात् तदा न स्यादपि नामकरणादस्य भेदः, तच्च नास्ति, यतः संज्ञया करणमिति तृतीयातत्पुरुषाश्रयणात्संज्ञाकरणशब्देन द्रव्यं पाइ|लकाद्यभिधीयते, तच्च करणशब्दाभिधेयार्थरूपतया द्रवणपरिणामस्वरूपमित्यन्वर्थो लभ्यते एवेति, अतः स्थितमिदं-नामकरणमपि यत्सान्वर्थ तत् संज्ञाकरणमिति परिभाषितं, शेषं त्वन्वर्थशून्यं नामकरणमिति, भाष्यकारेणाप्येतदेवोक्त 'सन्ना णामंति मई त्यादि (४५६-२६), सार्द्धगाथाव्याख्या-संज्ञाशब्देन नामैवोच्यते, ततश्च संज्ञाकरणस्य नामकरराणान्न कश्चिद्भेद इति परस्य मतिः स्यादित्येवं परमतमाशयोत्तरमाह-यद्भवताऽभिहितं तन्न, संज्ञाकरणनामकरणयोर४त्यन्तभेदात्, एतदेवाह-'नामं जमभिहाणं'ति (४५७-१), यद्-यस्मात्कारणान्नाममिति-नामकरणं-अभिधान COMSASARAMRICA CHECLARIOUSALSAMACHAR आ०१२ JainEducational For Private Personal use only R w .jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy