SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं शरीरं जीवनिवासादिस्थानंचा लनादेःसूत्र स्पर्शकता घटन्त एवेति यथाक्रमं दर्शयति-जीवस्य निवासादि शरीरं कायोऽभिधीयते, कुतो ?, जीवस्य निवासादिति, सर्बाण्यपि पञ्चम्यन्तपदान्येवं योजनीयानि, एतदुक्तं भवति-यदा जीवनिवासत्वेन कायो विवक्ष्यते तदाऽत्रापि निवासलक्षणोऽर्थो लभ्यते, तथा चितिशब्देनापि निचयोऽभिधीयते, ततश्चात्रापि यदा पुद्गलनिचयः कायशब्दस्याभिधेयतया विवक्ष्यते तदा चित्यर्थोऽपि लभ्यते, पुद्गलविशरारुतायां च कायशब्दस्याभिधेयतया विवक्षितायां शरीरलक्षणोऽर्थः प्राप्यते, यदा च तेषामेव पुद्गलानामवयवेषु करचरणादिषु समाधानं सङ्घातो मीलनं कायशब्दाभिधेयतया चिन्त्यते तदाऽवयवसमाधानलक्षणोऽर्थः प्राप्यते, चीयते पुद्गलैरवयवसमाधानद्वारेण निर्वर्त्यत इति काय इति भावः । 'जीवबद्धा जीवसम्प्रयुक्ताश्चति (४५६-३), तत्र बद्धाः-शिथिलबन्धनपरिणत्या सङ्ग्रहीतमात्राः संप्रयुक्तास्तु त एव निविडबन्धनपरिणत्या आत्मसात्कृताः, अथवा बद्धाः कायरूपतया परिणतिमात्रमानीताः संप्रयुक्तास्तु कायनिर्वर्त्यधावनवल्गनादिक्रियायां व्यापारिता उच्यन्ते इति । 'अक्खलियसंहियाईवक्खाणचउक्कए दरिसियंमी'त्यादि (४५६-१०), ननु यद्यस्खलितसंहितादिव्याख्याचतुष्टये दर्शिते सति सूत्रस्पर्शकनियुक्तेरवसरस्तर्हि तस्यां चालनाप्रत्यवस्थाने एव वक्तव्ये प्रामुतः, शेषव्याख्याङ्ग चतुष्टयस्य वृत्तिकृताऽपि दर्शितत्वात् , ततश्च यत् तस्यां 'करणे भये य अंते' इत्यादिना पददर्शनं पदार्थकथनं पदविग्रहकरणं ६ वा किं करिष्यति ?, तत्सर्वमतिरिच्यते, अथ तस्यामुच्यते तत्सर्व तर्हि वृत्तिकृता यत्तस्य स्वरूपमाविष्कृतं तत्कथं न | निष्फलमिति, सत्यमेतत् , किन्तु यद्यप्यस्यां सूत्रस्पर्शिकनियुक्तौ प्रायः सर्वाण्यपि व्याख्याङ्गानि दर्शयिष्यति तथापि नायं का सर्वत्र नियमो, यतः स्थानान्तरे सूत्रस्पर्शनियुक्तिषु क्वचिच्चालनाप्रत्यवस्थाने एवाभिधीयेते, क्वचित्तु पदार्थमात्रायेव किश्चि ॥६६॥ Jain Education Antonal For Privale & Personal use only A Mw.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy