SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ PLANLARAOSAXO9 SHAHARA सूत्रस्पर्शकानियुक्तिरारभ्यते-साम्प्रतं सूत्रोपन्यासार्थमित्यादि ( ४५४-१०), सूत्रोपन्यासार्थ वस्तुतः सूत्रस्पर्शनियुक्तिगतामेव गाथामाहेति सम्बन्धः, ननु "नंदिमणुओगे"त्यादिगाथया न कश्चित्सूत्रावयवः स्पृश्यते तत्कथमियं सूत्रस्पर्शनियुक्तिगतेत्युच्यते ?, इत्याशंङ्क्याह-प्रत्यासत्तियोगादिति, एतदुक्तं भवति, अनया गाथया सम्बन्धे घटितेऽनन्तरमेव सूत्रस्पर्शनियुक्तिर्भणिष्यत इति यद्यप्यनया न कश्चित्सूत्रावयवः स्पृश्यते तथापि सूत्रस्पर्शकनिर्युक्तेरत्यन्तं प्रत्यासन्नेति वस्तुतस्तद्गतेत्युच्यते । 'अहीनाक्षरमनत्यक्षर'मित्यादि (४५५-१), यद्यप्येतानि पदानि पूर्व नन्द्यादौ व्याख्यातानि तथापि मन्दस्मृतिशिष्यानुग्रहाय लेशतो व्याख्यायन्ते-अहीनाक्षरं-यत्र हीनमक्षरं न भवति, अनत्यक्षरं-यत्राक्षरमधिकं न भवति, व्यत्यासितवर्णविन्यासं व्याविद्वाक्षरमुच्यते उत्क्रमप्रोतरत्नमालावत् न तथा अव्याविद्धाक्षरं, उपलशकलाकुलावनौ हलवद् यदधीयानः स्खलति तत् स्खलितं न तथाऽस्खलितमुच्यते, असदृशधान्यमीलकवद् यन्न वर्तते तदमिलितमिति आख्यायते, 'प्राप्तराज्यस्य रामस्य राक्षसा निधनं गता' इत्यादिवाक्यवद् यदस्थानविरतिमन्न भवति तदव्यत्याडितं, मात्रांशकादिनियतमानं प्रतिपूर्ण, उदात्तादिघोषसमन्वितं प्रतिपूर्णघोषं बालमूकभणितवद् यदव्यक्तं न भवति तत्कण्ठोष्ठविप्रमुक्तमुच्यते, वाचनोपगतं नाम यद् गुरुदत्तवाचनयाऽधीतं न पुनः स्वयमेव पुस्तकमादाय पठितमिति ॥ 'अथवा परः सन्निकर्ष इति (४५५-५), यो विसन्धिभावेनोच्चारणरूपः सन्निकर्षः स वा संहितेत्यर्थः, पदानि किल विसन्धिभावेनोच्चारयिष्यन्त इति संहितापदयोर्विशेष इति । 'निवासचितिशरीरोपसमाधानेष्विति (४५५-२८), एतेष्वर्थेषु चिनोतेरादेः को भवति, एते च सर्वेऽप्यर्था अत्र च कायशब्दे व्युत्पाद्ये %%A4%ACTORSESSASEX Jain Educ a tional For Private & Personal Use Only ellwww.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy