________________
तदानन्तर्यवृत्तिरेव प्रतिस्खलनमित्येवं सभावार्थमिदं व्याख्येयम् , अत एवोक्तं-'सूक्ष्मधिया भावनीय मिति । 'गंतूण जोअणं जोयणं तु परिहाइ अंगुलपुहुत्त'मिति (४४३-१५), अत्राङ्गुलपृथक्त्वं जिज्ञासुना त्रैराशिकमनुसरणीयं, तत्रेयं करणकारिका-"आद्यन्तयोस्त्रिराशावभिन्नजातीप्रमाणमित्सा च । फलमस्य जातिमध्ये तदन्त्यगुणमादिमेन भजेत् ॥१॥” भावना त्वियम्-अत्र सार्द्धद्वाविंशतियोजनलक्षाणि गत्वा यद्यष्टौ योजनानि हीयन्ते तदैकस्मिन् योजने किं परिहीयते ?, स्थापना- २२५००००1८1१अत्र चान्त्येनैककेन मध्यवर्त्तिनो अष्टौ गुणितास्तावन्त एव भवन्ति एतानि चाष्टौ योजनान्याद्यराशिना विभक्तव्यानि न च भागं प्रयच्छन्ति अतोऽङ्गलानि क्रियन्ते, तत्रैकस्मिन् योजने अष्टषष्टिसहस्राधिकसप्तलक्षाण्यङ्गलानां भवन्ति अतोऽष्टसु योजनेष्वयमङ्गलराशिर्भवति ६१४४०००, अस्य राशेः सार्द्धद्वाविंशतिलक्षस्वरूपाद्यराशिना भागेऽपहृते किञ्चिन्यूनमङ्गुलत्रयं लभ्यते तदेव चेहाङ्गुलपृथक्त्वशब्देनोक्तं द्रष्टव्यमिति, इदं चेहाविशेषेणोतत्वादित्थं व्याख्यायते यावता प्रज्ञापनायां द्वितीयस्थानपदे मध्यभागवर्त्यष्टयोजनेषु हानिनिषिद्धैव अतस्तन्मतेन मध्यभागाष्टयोजनवर्जा शेषक्षेत्रस्य हानिर्द्रष्टव्येति । 'पृष्ठतोऽर्दावनतादि रिति (४४३-२८-पृष्ठतो वा अर्धा०), आदिशब्दाद्भून्यस्तपृष्ठस्योत्तानस्य परिग्रहः निषण्णश्चोपविष्ट उच्यते । उत्कृष्टापि पञ्चधनुःशतेभ्यस्त्रिभागे पातिते सति सत्रिभागत्रयस्त्रिंशदधिकधनुःशतत्रयमानैव सिद्धानामवगाहना भवतीति । 'किह मरुदेवीत्यादि गाथा (४४४-१७), यद्युत्कृष्टतोऽपि पञ्चधनुश्शतमान एव सिध्यति नाधिकमानः तत्कथं मरुदेव्या मानं पञ्चविंशत्यधिकपञ्चधनुःशतलक्षणमुपपन्नं स्याद् ?, आचार्य आह-नाभेः कुलकरात्सकाशाद् येन किञ्चिन्यूनासौ ज्ञातव्या, एतदुक्तं भवति यद्यपि पञ्चविं
बने । उत्कृष्टापि
मरुदेवीत्यादि यधिकपञ्चधनुःशतलाव
JainEducarshalliational
For Private Personal Use Only
. www.jainelibrary.org