________________
आव० हारि० टीप्पणं
कर्मक्षयसिद्धाधिकारः
DONGAROSAGARLASAROGRESS
शत्यधिक पञ्च धनुःशतानि नाभेः शरीरप्रमाणं तथा मरुदेव्या अपि "संघयणं संठाणं उच्चत्तं चैव कुलयरेहिं सम"मित्यतिदेशात्तदेव प्राप्नोति तथापि पञ्चधनुःशतमानैवासौ, सूत्रे हि कियन्मात्रेण हीनाधिकेऽपि लाघवार्थमनेकस्थानेषु दृश्यन्ते
एवातिदेशा इति भावः, अथवा भवतु नाभिशरीरप्रमाणा तथापि करिस्कन्धावरूढत्वात्सङ्कुचितगात्रा सिद्धेति न यथोक्ताद वगाहनाविरोध इति गाथार्थः । जघन्यावगाहनाया विप्रतिपत्तिमाविष्कुर्वन्नाह परः-'सत्तूसिएसु'इत्यादि (४४४-१८),
ननु प्रज्ञापनादिग्रन्थेषु जघन्यपदेऽपि सप्तहस्तोच्छूितस्यैव सिद्धिरुक्ता अतः कथमिह जघन्यतो द्विहस्तशरीरमानस्य मुक्तिरुच्यमाना न विरुध्यते ?, एवं परेणोक्त पश्चाद्धेनोत्तरमाह-'किले'ति वृद्धवादसूचायां एवं किल वृद्धा व्याचक्षते-सा प्रज्ञापनाद्युक्ता सप्तहस्तप्रमाणा जघन्यावगाहना तीर्थकृतामेव द्रष्टव्या, जघन्यपदेऽपि तीर्थकरः सप्तहस्तमान एव सिद्ध्यतीत्येवंविषयैवेतिभावः, तीर्थकरव्यतिरेकेण तु शेषजीवानां सिद्ध्यतां-सिद्धिमासादयतां जघन्यपदे याऽत्रोक्ता द्विहस्तप्रमाणाऽवगाहना सैव द्रष्टव्येति वाक्यशेष इति गाथार्थः, के पुनस्ते ये द्विहस्ताः सिद्धा इत्याह-ते पुणे'त्यादि (४४४-१९), ते पुनर्जघन्येन द्विहस्तप्रमाणाः कूर्मपुत्रादयः सिद्धा भवेयुः, अन्ये पुनरभिदधति-सप्तहस्तप्रमाण एव यो मयूरबन्धादिना संवर्त्य बद्धो यन्त्रे वा निपीड्यमानः सङ्कुचितो द्विहस्तीभूतः सन् सिद्ध्यति तस्यैव जघन्या द्विहस्तप्रमाणावगाहना प्राप्यते न पुनः स्वरूपतोऽपि कश्चिट्विहस्तः सिद्ध्यतीति गाथार्थः, किञ्च-प्रायोवृत्तिमाश्रित्य जघन्यतः सप्तहस्ता उत्कृष्टतस्तु पञ्चधनुःशतानि सूत्रे मानमुक्तं इतरथा हीनमप्यधिकं वा कियताऽपि कस्यचित्स्यादेवेत्याह-'बाहुल्लओ य'इत्यादि (४४४-२०), बाहुल्यमाश्रित्य सूत्रे सप्त हस्ता जघन्यं पञ्चधनुःशतानि चोत्कृष्टं मानमुक्तम् इतरथा कस्यचिज्जीवस्या
॥६३॥
Jain Education
a
l
For Private & Personal Use Only
Show.jainelibrary.org