SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं कर्मक्षयसिद्धाधिकारः ॥६२॥ यगुणविहीनं प्रतिसमयानसशेपञ्चेन्द्रियमनोयोगतुल्यं मनोयोगधुः केवली प्रथममेवाचिन्त्यसामध्ये तद्व्यापारश्च-मनोद्रव्यव्यापारश्च चिन्तनीयानुकूलचष्टालक्षणो वा यावान् भवति केवलिनोऽपि शैलेश्यवस्थाप्राप्तिसमये तावन्ति मनोद्रव्याणि तद्व्यापारश्च तावानेव भवति, इदमुक्तं भवति-शैलेशीमारुरुक्षुः केवली प्रथममेवाचिन्त्यसामर्थ्य- वीर्यविशेषाज्झगित्येव पर्याप्तमात्रजघन्ययोगिसंज्ञिपञ्चेन्द्रियमनोयोगतुल्यं मनोयोगं धरति, ततश्च तस्मादवशिष्यमाणमनोयोगाद् असंख्येयगुणविहीनं प्रतिसमयं निरन्धानोऽसंख्येयसमयैः सर्वमपि मनोयोगं निरुणद्धि, अवशिष्यमाणमनो योगात्प्रतिसमयमसंख्येयं २ भागमपनयनसंख्येयसमयैः सर्वमपि मनोयोगं निरुणद्धीत्यर्थः इति गाथाद्वयार्थः । एवं है वाग्योगमपि विशिष्टवीर्यविशेषात्पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगतुल्यं प्रथममेव विधृत्य, तथा काययोगमपि प्रथमसमयो त्पन्नसूक्ष्मपनकजघन्यकाययोगतुल्यं विधृत्य ततस्तदसक्येयगुणविहीनं प्रतिसमयं निरुन्धानोऽसंशयेयसमयैः सर्व वाग्योग देहित्रिभागं च मुञ्चन् सर्व काययोगं निरुणद्धि, निरुद्ध्य च शैलेशी प्रतिपद्यत इति गाथाचतुष्टयतात्पर्यार्थः । अन्ये त्वन्यथापि व्याचक्षते, प्रज्ञापनादिभिर्विसंवादित्वाच्च तन्नेह प्रदर्यत इत्यलं प्रसङ्गेनेति । 'तदानन्तर्यवृत्तिरेव प्रतिस्खलनमित्यादि (४४२-२०), तस्य-अलोकाकाशस्यानन्तर्येण-अव्यवहितत्वेन या वृत्तिः-अवस्थितिः सैवालोकेन सिद्धानां | प्रतिस्खलनं न पुनर्दष्ट्यादेरिव स्तम्भादिना सार्द्ध सम्बन्धे सति प्रतिघातः, सम्बन्धस्यैवानुपपत्तेः, तथाहि-एकैकस्य जीवप्रदेशस्यैकैकेनालोकाकाशप्रदेशेन सह सम्बन्धो भवन् सर्वात्मना वा भवेत् देशात्मना वा ?, यदि सर्वात्मनेति पक्षस्तदा जीवप्रदेशस्य सर्वात्मनाऽऽकाशप्रदेशेन सम्बद्धत्वादेकत्वप्रसङ्गः, अथ देशात्मनेति पक्षः, तदा प्रदेशेष्वपि प्रदेशप्रसक्तिः, तदयुक्तं, यदाह-'प्रदेशानां निष्प्रदेशत्वादिति न हि प्रदेशेष्वपि प्रदेशाः सन्ति इत्येवं पक्षद्वयेऽपि सम्बन्धाभावात् ॥६२॥ JainEducational For Private & Personal use only
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy