________________
आ० ११
Jain Educ
कोऽत्र मम दोष इति ?, एवं विवादे द्वावपि राजधानीं प्रति गन्तुं प्रवृत्तौ, मार्गे चाश्वात्पतितेन केनचिद् अकृतपुण्यः पुमानुकः- एनं प्रपलायमानमश्वं व्यावर्त्तय, तथैव तेन कृते मर्माहतोऽश्वो मृतः तेनाप्यसौ गृहीतः, एवं त्रयोऽपि जना राजधान्या बहिस्ताद्वटवृक्षस्याधस्ताद्रात्रावुषिताः, अपरेऽपि लोमन्थिकाः - नटास्तत्रैवोषिताः, अकृतपुण्यपुरुषेण चानयोर्यावज्जीवं दासोऽहं भविष्यामीति विचिन्त्य वटवृक्षे दण्डीखण्डेनोल्लम्बितं, त्रुटिते च तस्मिन्नधोवर्त्तिनटमहत्तरो निपतता व्यापादितो, अतस्तैरपि नटैः प्रारब्धोऽसौ ततः सर्वैरपि यथावृत्तव्यतिकरेऽमात्यस्य कथिते तमकृतपुण्यपुरुषं निष्प्रतिभं दीनवदनमनुकम्पास्पदं दृष्ट्वा कृपया सञ्जाततत्पक्षपातो निजगाद सचिवो ददात्येष बलीवर्दान् केवलं यैर्मुच्यमाना वाटके बलीवर्दा दृष्टास्तानि बलीवर्द्दस्वामिनो नेत्राणि उत्खातयामि, अश्वस्वामिनो यया जिह्वयेदमुक्त - निवर्त्तयैनमश्वं तामुत्पाटयामि ततो दास्यत्यश्वमसौ, नटास्त्वभिहिताः, तस्यैव वटवृक्षस्याधस्तादयं शेते भवतां मध्यात्कश्चिदुलम्बयतु इत्येवमभिहितास्तं परित्यज्य सर्वे प्रणष्टा इति चूर्ण्यक्षरभावार्थ: । 'डोवदृष्टान्तो' ( ४२७ – ९ ), यथा काचित्परिवेशनकर्त्री प्रथममेव जानाति एष एतावन्मात्रया दीयमानः सर्वेषामेकस्मिन्माने भविष्यति अतस्तावन्मात्रं २ डोवैः कृत्वा ददातीत्यर्थः । 'मौक्तिकदृष्टान्तों' ( ४२७ – ९ ), यथा कश्चिन्मौक्तिकानि शूकरवाले प्रोतयंस्तथाऽऽकाशे मौक्तिकमुल्लालयति यथा शूकवालमुखेन तच्छिद्रं संयुज्यत इति । 'पवउत्ति ( ४२७ - १० ), प्लवको - नट इतियावत् । तुन्नाकः अभ्यासोत्तरकालं पश्चादतिसूक्ष्माणि तूनयति यथा श्रीमन्महावीरसम्बन्धि वस्त्रं धिग्जातीयेन तुन्नाकसकाशात् तथा तुन्नापितं यथा न केनचिल्लक्षितं, शूच्या च तुन्नाको निरीक्ष्य कश्चित्तावन्मात्रं दवरकं गृह्णाति यावता विवक्षितवस्त्रच्छिद्रं पूर्यते न हीनाधि
tional
For Private & Personal Use Only
www.jainelibrary.org