SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ बहविधमक्त्वा दापिता तस्मै दुहितेत्यत्र अश्वाधिपते(नयिकीत्येवं सभावार्था चूर्ण्यक्षरगमनिका । तेणसीवणीए'त्ति (४२५-१) तस्करसीवनिकया नष्टसीवन्येतियावत् । किमिति तेन वैद्येन स्तोकं विषमानीतमित्याशङ्क्याह-जं किं बहुणेत्यादि ( ४२५-६), यद्-यस्मात्कारणात् किं निस्सारेण वस्तुना विषेणान्येन वा बहुनाऽपि क्रियते ? प्रतिपक्षदर्शनेनापि निस्सारेण किं बहुना ? अपि तु प्रतिपक्षोऽपि सार एब प्रदर्शनीयः स्वल्पोऽपि, यथा तेन वैद्येन विषप्रतिपक्षः स कश्चिप्रधानः स्वल्पोऽप्यगदो दर्शितो येन शतसहस्रजन्तुवेध्यपि विषं झगित्येव निवर्तितं, तस्मान्न स्वल्पं बहु वा वस्तु चिन्तनीयं, किन्तु विवक्षितस्य वस्तुनो य आयो लाभो निष्पत्तिरितियावत् तदुपाये यत्कुशलत्वं तस्यैव दर्शन-प्रकटनं कर्त्तव्यं, एतदुक्तं भवति-किमल्पबहुत्वविचारेण ? येनैव विवक्षितकार्यनिष्पत्तिस्तत्रैव यत्नो विधेय इति भावार्थः। 'सुकियं भणंति अहो सीया साडीत्यादि (४२५-१६), शुष्कामपि-अनामपि स्नानशाटिकां ते कुमाराः शीतलामपि व्यपदिष्टवन्तः, तृणं च द्वाराभिमुखं कृत्वा व्यपदिशन्ति अहो सुदीर्घमिदं, क्रौञ्चनामा जीवविशेषः स किल शेषदिवसेषु स्नानावसाने मङ्गलार्थमुपाध्यायस्य प्रदक्षिणीकृत्याऽऽरात्रिकवदवतार्यते तत्र च दिवसे विपर्ययेणावतारितः, एवं कुमारैरनुष्ठितेऽवगतमुपाध्यायेन-कथमिति ? चेद् उच्यते-शीतला शाटिकेति ब्रुवाणैः कुमारैः स्वमातापित्रादीनि मां प्रति शीत लानि-विरक्तानीति सूचितं, दीर्घतृणदर्शनेन च मम पलायनार्थ दीर्घः पन्थाः प्रदर्शितः, क्रौञ्चविपरीत्यावतारणेन तु दमरणमावेदितं मम, तथा चाह-'सीयाणंति (४२६-२)श्मशानसात्कर्तुं मृगयन्ति-मारयितुमिच्छन्तीत्यर्थः, वैपरीत्येन हि कौञ्चावतारणादिकृत्यानि किल मृतस्यैव क्रियन्ते न जीवत इति निश्चित्य प्रपलाययामास उपाध्याय इति, कुमाराणां Jain Educa t ional For Privale & Personal use only www.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy