________________
आव०
हारि० टीप्पणं
॥ ५९ ॥
Jain Education
वाहय यौ शेषाश्ववाहनिकातोऽधिकं निर्बहतः तौ द्वावपि गृहाण, तेन सर्व तथैव कृत्वा वेतनकाले - मूल्यकाले अश्वस्वामी | याचितो ममामुकममुकं चाश्वं देहि, तुरङ्गमस्वामी तु समस्तलक्षणयुक्तौ ताविति कृत्वाऽऽह - एतद्वर्ज शेषान् सर्वानपि गृहाण किमेताभ्यां करिष्यसि ?, स तु तद्वर्ज नापरं कमप्यश्वमिच्छति, ततश्चाश्वस्वामिना स्वभार्योक्ता - प्रदीयतामस्मै स्वपुत्रिका येन गृहजामातृत्वं प्रतिपन्नो नाश्वौ गृहीत्वाऽन्यत्र व्रजति, सा च हीनोऽसाविति नेच्छत्यमुमर्थं, ततोऽश्वस्वामी भार्याऽवबोधाय वर्द्धकिसुतं दृष्टान्तीकरोति, किमर्थमाश्रित्येति चेद् उच्यते- लक्षणयुक्तेन स्वगृहे धृतेन कुटुम्बं धनकनकादिना वर्द्धत इति, साम्प्रतं स एव दृष्टान्तो भाव्यते - एकस्य कस्यचिद् भागिनेयस्य मातुलकेन वर्द्धकिना स्वदुहिता परिणेतुं दत्ता, गृहजामाता च कृतः, कर्म्मान्तरं त्वसौ न किञ्चित्करोति, अतो वर्द्धकि दुहित्रा प्रेरितः किमिति पुरुषत्रतरहितं परदत्तमुपजीवंस्तिष्ठसि ? विधेहि किञ्चित्कर्मान्तरमिति, कुठारं गृहीत्वा काष्ठकर्त्तनार्थमटवीं गतः, स्वाभिलषित काष्ठप्राप्य - भावाच्च प्रतिदिवसं रिक्त एव निवर्त्तते षष्ठे च मासे लब्धं कृष्णचित्रककाष्ठं, तत्र च कुलकः - कलशिकाचतुर्थीशरूपो धान्यमापकविशेषो घटितः तद्विक्रयार्थं च द्रव्यस्य लक्षेण देय इत्युक्त्वा स्वभार्याऽऽपणपथे प्रेषिता, सा च तन्मूल्ये | लक्षं याचमाना लोकैरुपहस्यते, अपरस्तु बुद्धिमान् वणिक्कश्चित् कारणेनेह भवितव्यमिति विमृश्य यावत्तेन धान्यं मिमीते तावन्न कथञ्चित्क्षीयते अतो धान्याद्यक्षयनिमित्तं लक्षमपि दत्वा तेन गृहीतः, ततः प्रभृति तेन सलक्षणजामातृकेन गृहे धृतेन सर्वमपि वर्द्धकिकुटुम्बं धनधान्यादिना वृद्धिमुपययौ, तथा त्वमपि निजदुहितरं यद्यस्मै प्रयच्छसि तदाऽनेनास्मद्गृहे | तिष्ठता समस्तलक्षणोपेतमश्वद्वयमपि तिष्ठति, तदश्वद्वयमाहात्म्येन च सर्वाः सम्पदः करस्था एव भवन्ति अस्माकमित्यादि ।
For Private & Personal Use Only
अभिप्रायसिद्धाधि
कारः
॥ ५१ ॥
w.jainelibrary.org