________________
तत्रैवैकस्मिन्पार्चे कूपतटं ताडयत यूयं थासकेन-कुद्दालकेनेत्यर्थः, तथैव तैरनुष्ठितम् , उद्भूतं च तोयमिति नैमित्तिकस्य ६ वैनयिकीत्येवं चूर्ण्यक्षराणि मन्तव्यानीति । 'अणेगआसावहोत्ति (४२४-६) अनेकानश्वानावहतीत्यनेकाश्वावहः,
तेन गृहे तिष्ठतोऽन्येऽप्यश्वा बहवो भवन्तीत्यर्थः।गईभोदाहरणे-कश्चिद्राजा तरुणवयस एव पुरुषान् स्वसन्निधौ धारयति न वृद्धान्, अन्यदा च ससैन्यः कमपि शत्रुमनुधावितोऽसौ, अरण्ये च तोयमन्तरेण वाध्यमानायां सेनायामबहुदृष्टत्वेन तरुणपुरुषेषु जलस्थानान्यजानानेषु किमत्र कटके अस्ति कश्चिद्वद्धो यो जलाशयान् जानीत इत्येवं राज्ञा पृष्टं, तत्र चैकेन पदातिना पितृभक्तेन राज्ञः प्रच्छन्नं स्वपिता वृद्ध आनीत आसीत् , तेन च पृष्टेनसता राज्ञः कथितं यत्र किल खरश्चरणाघातान्प्रयच्छन् सादरं भूमिमाजिघ्रति तत्र स्वल्पेऽपि खाते जलमवाप्यते इति वृद्धश्रुतिः, तथैव च खानिते तस्य राज्ञस्तोयशिरादर्शनमभूद्, अन्ये त्वाचक्षते-येन मार्गेण तोयगन्धमाजिघन्तो रासभा जग्मुस्तन्मार्गमाश्रित्य नीतं समस्तमपि सैन्यं तेन वृद्धेन दृष्टश्च जलाशय इति, वृद्धस्य वैनयिकीत्येवं चूर्ण्यक्षराण्युन्नेयानि । 'लक्षणोदाहरणं' (४२४-८-लक्खणे वृ०), पारसविषये कस्यचिद्गृहे प्रभूतास्तुरङ्गमाः, तेन चाश्वस्वामिना एतावदश्वसमूहमध्ये स्वेच्छयाऽश्वद्वयं त्वया भृतौ वर्षान्ते । ग्राह्यमित्युक्त्वा कश्चिदश्वरक्षको धृतः, तस्य च तदुहिता सार्द्ध सङ्गतिरभूद्, वृत्तिकाले च समायाते अश्वरक्षकेन सा तदुहिता पृष्टा-अमीषां मध्ये कथय किमपि लक्षणयुक्तमश्वद्वयं येन तद्गृह्णामि, तयाऽभिहितोऽसौ-सर्वेष्वश्वेषु अरण्ये | | विश्रब्धमुपविष्टेषु घोलचर्मः-चर्ममयाधारविशेषःस पाषाणखण्डानां भृत्वा उपरिष्टाद्वक्षशाखातो मोक्तव्यः तथा पटहस्तदग्रतो वादनीयः इत्येवं कृते यौ न समुत्त्रस्यतस्तथा खुक्खुरकेण-चर्ममयेन पाषाणखण्डभृतेन पृष्ठतो वाद्यमानेन सर्वानपि 8
Jain EducatiRinna
For Privale & Personal use only
Twww.jainelibrary.org