________________
आघ०
हारि० टीप्पणं
॥ ५८ ॥
कल्पकेनात्मीयपुरुषान् प्रेष्य नदीपरतटावासितसमस्त प्रतिपक्षराजवर्गस्याख्यापितं अर्वाग्भागान्नावमारुह्याहमागमिष्यामि परतस्त्वात्मीयमन्त्रिणः प्रेपणीया येन नदीमध्ये सन्धानमुच्यते, समायातास्तथैव, कल्पकेनोक्तं- इक्षुकलापकस्य मुष्टिबद्धस्याधस्तादुपरि च छिन्नस्य मध्ये किं भवति ? कुण्डे प्रक्षिप्तदनो वाऽधउपरिच्छिन्नस्य मध्ये किं भवति ?, इत्येवमसम्बद्धं जल्पं किश्चिद्विधाय प्रतिनिवृत्तः, तैश्च मन्त्रिभिर्गत्वाऽऽत्मीयस्वामिभ्यो निवेदितं, ते च राजानश्चिन्तयन्ति - नेत्थमसम्बद्धं कल्पको जल्पति कदाचिदपि, परमस्मदीया मन्त्रिणस्सर्वेऽपि तेन भेदिताः सम्भवति हि सबै तत्पार्श्वे सकलबुद्धिसम्पन्नत्वाद्, यदिवाऽसौ जीवतीत्यस्माभिर्ज्ञातमभविष्यत् तदा विग्रहमपि नन्देन समं न कश्चिदकरिष्यत् तस्मादिदानीमप्यपसरणमेव श्रेय इत्येवं विमृश्य सर्वे प्रनष्टाः इत्येवं कल्पकस्य नीतिशास्त्रे प्रावीण्यमिति । 'लेहे जहा अट्ठारसे' त्यादि ( ४२४ - २ ), यः किल लाटकर्णाटद्रविडदेशजादिलिपीनामष्टादशकमपि वेत्ति तस्य वैनयिकी, अथवा कश्चिदुपाध्यायो राजपुत्रान् पाठयति, ते च दुर्ललितत्वाल्लाक्षागोलकैः क्रीडन्ति न पुनरधीयते, अत उपाध्यायेन स्वबुद्धिप्रकर्षात्तथैव क्रीडन्तोऽप्यमी यथा २ अक्षराण्येकद्वित्राद्यङ्काश्च निष्पाद्यन्ते तथा २ भूमौ गोलकप्रक्षेपं कारयित्वा समस्तलिपीगणितञ्च ग्राहिताः न च क्रीडारसस्तेषां निरुद्ध इत्युपाध्यायस्य वैनयिकी । 'खायजाणएणं भणिय मित्यादि ( ४२४-३), खातं - कूपवाप्यादि तत्स्वरूपज्ञायकेन केनचिन्नैमित्तिकेन केषाञ्चित्कूप खननप्रवृत्तपुरुषाणां कथितम्, एतावद्दूरमवनौ खातायामत्र जलमुन्मीलयिष्यति, तैस्तावत्समधिकं खातं तथापि जलं न प्रादुरस्ति, ततो नैमित्तिकाय तैराख्यांतं - अतिक्रान्तं भवत्कथितं स्थानं तथापि न पानीयमुन्मीलति, नैमित्तिकेन प्रत्यवाचि - यस्मिन्नेव प्रदेशे मया कथितं तस्मिन्नेव जलं केवलं
Jain Educationlanational
For Private & Personal Use Only
अभिप्रायसिद्धाधि
कारः
॥ ५८ ॥
w.jainelibrary.org