SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Jain Education इत्येवं चूडामणिपठितश्लोकोऽयं द्रष्टव्यः । 'बीओ आपुच्छइ सम्भाव' मित्यादि ( ४२३ - २० ), द्वितीयो येन न सम्यगवगतं स उपाध्यायं पृष्टवान् ममानेन सार्द्धं सममेवाधीयानस्य न शास्त्रसद्भावमावेदयसि त्वं, अस्य तु सम्यक्कथयसीति तं सकोपाभिसन्धिमालोक्योपाध्याय स्तौ पप्रच्छ- कुतो व्यतिकरादिदमभिधीयते !, ताभ्यां सर्व्वं यथावृत्तमावेदितमुपाध्यायाय, तत्रैकः प्राह - मया घटस्य विपत्तिमालोक्य "तजाएण य तज्जायमित्यादि पर्यालोचयता वृद्धासुतस्य मरणमादिष्टं, अपरस्त्वाह-ममेत्थमवगतं, घटस्तावदयं भूविकारो भग्नः सन् भुव एव मिलितः एवं सोऽपि वृद्धासुतस्तदुद्भव - त्वात्तस्या एव मिलिष्यति, यदुक्तं - "तजाएण य तज्जाय" मित्यादि, गुरुणा च स मन्दप्रज्ञः शिष्य उक्तः - तज्जाएणेत्यादिश्लोको द्वयोरपि मयैकरूपतया व्याख्यातः, स्वप्रज्ञादोषात्तु न तव सम्यक् परिणत इति कोऽत्र मम दोष इति । 'अत्थसत्थे - कप्पओ दहिकुंडउच्छुक लावस्से' त्यादि ( ४२४ - २ ), अर्थशास्त्रं - नीतिशास्त्रं तत्प्रावीण्ये कल्पको दृष्टान्तः, कथानकं चेदमुपरिष्टाद्योगसङ्ग्रहेषु न्यक्षेण वक्ष्यते, स्थानाशून्यार्थे च लेशतः किञ्चिदुच्यते-पाटलीपुत्रनगरे नन्दाभिधानेन राज्ञा कल्पकाभिधानो निजामात्यः कस्मिंश्चिदपराधे सकुटुम्बोऽन्धकूपे प्रक्षिप्तः, तद्भोजनार्थं च कोद्रवकूरभृतशरावकं पानीयं च किञ्चित्प्रक्षिप्यते तच्चाल्पमिति वैरनिर्यातनार्थं जिजीविषुः कल्पक एवैको भुङ्क्ते न शेषाणीति कल्पकव सर्वाण्यपि मृतानि, नन्दश्च कल्पकबुद्धिबलेनैव राज्यमकरोद्, अतस्तमन्धकूपे क्षिप्तं मत्वा समस्तप्रतिपक्षराजवर्गेण पाटलीपुत्रे वेष्टिते नन्दः कल्पकं स्मृतवान् कथितं च तत्पुरुषः- देव ! तत्र कूपे प्रक्षिप्तं भक्तमद्यापि कश्चिद्गृह्णाति ततः कूपादाकृष्य कल्पकः सप्रणयं राज्ञाऽभ्यर्थितो न भवबुद्धिमन्तरेणापदियं निस्तीर्यते तस्मात् कुरुष्व किञ्चिदुपायं, अतः tional For Private & Personal Use Only www.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy