________________
आव० हारि० टीप्पणं
सर्वां शिल्पविद्यामवधारयतीति भावार्थः । 'किंकम्मय'त्ति (४०९-१५), किंकर्म गच्छन्तीति किंकर्मगाः,भवन्तः कम- | अभिप्राय धिकारं कृतवन्त इति पृष्टाः। 'इमेण तं संघाइय'मित्यादि (४१०-८), अनेन कोकाशवर्द्धकिना यदर्द्धनिष्पन्नमा- सिद्धाधिसीच्चक्रं तत्परिपूर्ण निष्पादितं, कीदृशं च स्वविज्ञानातिशयात् कृतं तदित्याह-ऊद्धीकृत्य प्रक्षिप्तं सद् याति बहुतरं भूदे
कारः |शमाक्रामति अग्रे च कुड्यादौ प्रतिघातस्थाने प्रस्खलितं निवृत्तं सत् न तत्रैव निपतति किन्तु प्रतिमुखं निवर्त्तते यावतो, भूभागात्प्रक्षिप्तं तावन्तं पुनरपि निवृत्तं सदाक्रामतीत्यर्थः, ऊर्द्धस्थानेन च स्थितं सन्न पतति किन्तु तथैव तिष्ठति, इतरस्य च तन्नगरवासिनो वर्द्धकेः सत्कं यत्नेन घटितं तत्किमित्याह-'जाती'त्यादि (४१०-९) सुगम । 'महाविस्संदा दोन्नित्ति (४११-१६), द्वे पापाणमयकुण्डिके तत्राभूतामित्यर्थः । तेसिं कप्पराण'मित्यादि (४१२-१), तेषां चाकाशेन गच्छत्पात्राणामग्रतः सितवस्त्रपिधानः पतग्रहको गच्छति तन्मध्यस्थिता च टोप्परिका-कडाहिका कस्यचिदुपासकस्य गृहे गता, सा च सर्वप्रवरे आसने तैरुपासकैः स्थापिता, अन्यथाऽनादरेण दृष्टा सती अगृहीत्वैव भक्तपानादिकं स्वस्वामिनोऽन्तिकमायाति सातिशयत्वादिति भावः। 'कट्टविरूढगोत्ति-(४१३-१३), एकस्मिन्काष्ठे समारूढोऽन्यानि समाकर्षति । 'कादाचित्कं वा कम्में'त्यादि (४१५-३ ), यत् किल पीठफलकादिनिर्मापणं तस्मिन्नेव क्षणे प्रारब्धं तस्मिन्नेव निप्पद्यते न पुनः प्रासादादिवन्नित्यं प्रतिदिनं क्रियते तत्कादाचित्कं कर्माभिधीयते, प्रासादादिनिर्माणं तु बहूनि दिनानि यावन्नित्यव्यापारं शिल्पमुच्यते । “भरहदारएणं ति (४१६-८), भरतो-नटस्तत्पुत्रेण । 'अगडे'त्ति (४१६-१४),ठा॥५५॥ राज्ञा समादिष्टं-कूप एकः प्रेषणीयो, रोहकेणोतं-आरण्यको ग्राम्यकूप एकाकी समागच्छन् विभेतीति भवद्भिर्नागरिककूपः
--561
D
Jain Educatio
ww.jainelibrary.org
For Private & Personal Use Only
n
al